पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
नृसिहप्रसादे

त्रीहियवाश्च यवविशेषाः । मधूलिका धान्यविशेषः । कृष्ण स्थलजा त्रीहयः ।

वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु ।
औौरभेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥
षण्मासांश्छागमांसेन पार्षतेनेह सप्त वै ।
अष्टावेणस्य मांसेन रौरवेण नवैव तु ।
दशमासास्तु तृप्यन्ति वराहमहिषामियैः।
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ।
संवत्सरन्तु गव्येन पयसा पायसेन च ।
वाघीणसस्य मांसेन तृप्तिर्दादशवार्षिकी ।
कालशाकं महाशल्काः खड्गो लोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्भानि च सर्वशः ” इति ।

हारिणं गौरमृगमांसम् । औौरभृ=मेषमांसम् । शाकुनं भोज्य

पक्षिमांसम्,पृषतश्चित्रमृगस्तस्य मांस पार्षतम्। एण=कृष्णमृगः, तस्य
मांसमैणम् । रुरोमांसं रोरवम् । बहुविशेषाडो मृगविशेषो रुरुः ।
गण्डकः खगः । वाध्रीणसस्य विष्णुधर्मोत्तरे लक्षणमुक्तम् ।

तथा हि

‘त्रिपिबन्विद्रियक्षीणं श्वेतं वृद्धमजपतिम् ।
। वाघीणसन्तु त प्राहुर्याज्ञिकाः पितृकर्मसु” इति ।

केचिदन्यथा वदन्ति

‘कृष्णग्रीवो रक्तशिराः श्वेतपुच्छो विहङ्गमः ।
स वै वार्षीणसः प्रोक्त इत्येषा नैगमी श्रुतिः' इति ।