पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
नृसिहप्रसादे

अथ वज्य निरूप्यन्ते

तत्र--

'ये स्तेनाः पतिताः क्लीबा ये च नास्तिकवृत्तयः ।
तान् हव्यकव्ययोर्विप्रान् अनर्हन्मनुरब्रवीत् ।
जटिलं वाऽनधीयानं दुर्बलं कितवं तथा ।
याजयन्ति च ये पूगान् तॉश्च श्राद्धे न भोजयेत् ॥
कित्सकान्देवलकान्मासविक्रयिणस्तथा ।
विपणेन च जीवन्तो वज्र्याः स्युर्हव्यकव्ययोः ।
भृतकाध्यापको यश्च भृतकाध्यापितस्तथा ।
शूद्रशिष्यो गुल्चैव वाग्दुष्टः कुण्डगोलकौ ।
अकारणात् परित्यक्ता मातापित्रोर्गुरोस्तथा ।
व्रातैयनैश्च सम्बन्धेः संयोगं पतितैर्गतः । ।
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी वन्दी च तैलिकः कूटकारकः ।
पित्रा विवदमानश्च कितवो मद्यपस्तथा ।
पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ।
उन्मत्तोऽधश्च वज्र्याः स्युर्वेदनिन्दक एव च ।
हस्ति-गोऽश्वोधूदमको नक्षत्रैर्यश्च जीवति ।
पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ।
प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ।
स्रोतसां भेदको यश्च तेषां चावरणे रतः ।