पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
नृसिहप्रसादे

जम्मवाकर्मसंयुक्त स श्राद्धे प्रथमो मतः ।।
तादृशादयुताच्छेयान् एको योगसमाश्रयः इति ।


‘एषामन्यतमो यस्तु भुञ्जीत श्राद्धर्मार्चितः ।
पितृणां तस्य तृप्तिः स्याच्छश्वती साप्तपौरुषी ।
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं श्रेयः सदा सद्भिरनुष्ठितः ।
मातामहं मातुलं च स्वसीयं श्वशुरं गुरुम् ।
दौहित्रं विपतिं बन्धून् ऋत्विजं चापि भोजयेत्” इति ।

अत्र हि एवं व्यवस्था–एको हि प्रथमो मुख्यः कल्पःअप

रस्त्वनुकल्पः, तत्र पूर्वाभिहितवेदपारगादिर्विप्रवर्गः प्रथमः श्रेष्ठ
कल्पः, द्वितीयस्तु प्रथमादधमः कल्पः स एवानुकल्प इत्युच्यते ।
तदुक्तममरकोशे जिनेन्द्रेण

‘‘मुख्यः स्यात्प्रथमः कल्पस्त्वनु कल्पस्तु मध्यमः" इति ।

मातामह मातुलं चेत्यादि वक्ष्यमाणः प्रथमकल्पाभावे

सर्वकालं महद्भिरनुष्ठीयते । गुरुरत्र विद्योपदेष्टा न पिता ।
विपतिर्जामाता अतिथिर्वा तदाह देवस्वामी-अतिथिरित्यन्ये
बदन्तीति । यत्र प्रथमकल्पस्य सम्भवस्तत्राननुष्ठानं द्वितीयस्येति ।

प्रभुः प्रथमकल्पस्य योऽनुकल्पे तु वर्तते ।
न साम्परायिक तस्य दुर्मतेर्विद्यते फलम्’ इति ।

प्रभुः सम्पादने शक्तः, सम्पराय उत्तरः कालःतथा च को