पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
श्राद्धसारे पात्रनिणेयः।

णात्मवेदार्थमृग्ययनृपोरेकदेशं तद्व्रतं च वेचाति वेदार्थवित् , ज्ये
ष्ठसाम सामविशेषः तदूत तद्व्रताचरणेन यस्तदधीते स ज्येष्ठसामा,
त्रिमधुः ऋग्वेदैकदेशः, त्रिसुपर्णमृग्यजुषोरेकदेशं तद्व्रतं च, तदा
देशेन यस्तदधीते स त्रिसुपर्णकः, ते ब्राह्मणाः श्राद्धसम्पद इति ।
तथाऽ न्येऽपि ब्राह्मणाः

‘‘कर्मनिष्ठास्तपोनिषुः पश्चान्निर्जुह्मचारिणः ।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसम्पदः ” इति ।

अस्यार्थ– कर्मनिष्ठा विहितानुष्ठानपराः, तपोनिष्ठाः तपःशी

लाः, सभ्यावसथ्यौ त्रेताग्नयश्च यस्य सन्ति स पञ्चाःि ।

‘ज्ञाननिष्ठा द्विजाः केचिद्वैपनिष्ठास्तथा परे। ।
तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथैव च ।
ज्ञानोत्कुटेषु कव्यानि प्रदेयानि प्रयत्नतः ।
न श्राद्धे भोजयेन्मित्रं धनैः कायोऽस्य सङ्ग्रहः ॥
नारिं न मित्रं यं विद्याचं श्राद्धे भोजयेद् द्विजम्' इति ।

तस्मादरिमित्रव्यतिरिक्तं पूर्वोक्तलक्षणलक्षितं ब्राह्मणं श्राद्धे

नियोजयेदिति । आपस्तम्बः—ब्राह्मणान् भोजयेत् ब्रह्मविदो यो
नि-ोत्र-मन्त्रा–ऽन्तेवास्यसम्बद्धानिति । अयमर्थ –“योनिसम्ब
द्धा मातुलादयः, गोत्रसम्बद्धः सपिण्डादयः, मन्त्रसम्बद्ध । वेदा
ध्यापकादयः, अन्तेवासिसम्बद्धाः शिल्पशास्त्रोपाध्यायाः । एवं
विधसम्बन्धव्यतिरिक्तान् गृहस्थममुखान् ब्राह्मणान् भोजयेत् ।

तथा पुलस्त्यः

‘‘साङ्गास्तु चतुरो वेदान् अधीते संस्कृतोऽर्थवित् ।