पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
नृसिहप्रसादे

अथैवं मन्यसे

‘कुयान्मातामहश्राद्ध नियमात्पुत्रिकासुतः ।
उभयोरर्थसम्बन्धात्कुर्यात्स उभयोरपि '॥

इति वाक्याहोहित्रस्योभयसम्बन्धात् उभयोरप्यसौश्राद्धं कुर्यात् ,

इदमसत् . अनवगोः।तथा हि नायमस्य वाक्यस्यार्थः। कस्तर्हि, अय
मेवम्, द्विविधो हि पुत्रिकापुत्रःएको हि मातामहेन सम्बद्धःअपरः
पुनः पितृमातामहाभ्यामिति, तत्र प्रथमो मातामहश्राद्धे नियमेन कुर्यात् ,
पितृश्राद्धमिच्छया । इतरस्तूभयोरपीति । अतो नात्रानियमः ।

“दौहित्रो ह्यग्विल रिथमपुत्रस्य पितुर्हरेत् ।
स एव दद्याद् दो पिण्डौ पित्रे मातामहाय च"इति (६।१३२

मानवीयवचनं धनहारिदोहित्रस्यैव नवश्रादौर्वदैहिककर्त

व्यता नेतरस्येति प्रतिपादयति . तथा

“मातामयं तु मात्रादि पैतृकं पितृपूर्वकम् ।
मातृतः पितृतो यस्मादधिकारोऽस्ति धर्मतः ।
सगोत्रोवाऽसगोत्रो वा यो भवेद्विधवासुतः।
पिण्डश्राद्धविधानं च क्षेत्रिणे भ्राग्विनिर्वपेत् । ॥
बीजिने तु ततः पश्चात्क्षेत्री जीवति चेत्पृथक् ।
बीजिने दद्युरादौ तु मृते पश्चाभदीयते" इति ।
इति श्रीमद्युदमीनृसिहचरणसरोरुहभ्रमरसकलभूमण्डलमण्डन सम
स्तयवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महा
राजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिंहप्रसादे श्राद्ध
सारे मातामहश्राद्धाधिकारनिर्णयः ।