योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०९३

विकिस्रोतः तः


त्रिनवतितमः सर्गः ९३
श्रीवसिष्ठ उवाच ।
अथोत्थाय ददाहासौ शुष्कं तत्तृणमन्दिरम् ।
अज्ञेन स्वेन मनसा वृथा संकल्पकल्पितम् ।। १
शिष्टं यत्किंचिदभवत्तत्सर्वं स शिखिध्वजः ।
असंरब्धमना मौनी क्रमेण समया धिया ।। २
ददाह च स चिक्षेप तत्याज च बभञ्ज वा ।
भाण्डजातं स्ववसनं भोजनाद्यपि तुष्टवत् ।। ३
स बभूवाश्रमस्तस्य दृष्टनष्टजनस्थितिः ।
वीरभद्रबलध्वस्तदक्षयज्ञाश्रमोपमः ।। ४
आश्रमात्ते मृगगणास्त्यक्तरोमन्थमुद्ययुः ।
साग्निदाहात्पुरवराद्भीतभीतजना इव ।। ५
भाण्डजातं दहत्यग्नौ सहशुष्केन्धनेन तत् ।
केवलाकृतिरस्नेहस्तुष्टिमानाह भूपतिः ।। ६
शिखिध्वज उवाच ।
वासनां तत्र संत्यज्य सर्वत्यागी स्थितो ह्यहम् ।
अहो नु चिरकालेन देवपुत्र प्रबोधितः ।। ७
संपन्नः केवलः शुद्धः सुखेनोद्बोधवानहम् ।
किं नाम किल वस्त्वेतद्भवेत्सांकल्पिकक्रमम् ।। ८
यावद्यावत्प्रहीयन्ते विविधा बन्धहेतवः ।
तावत्तावत्समायाति परमां निर्वृतिं मनः ।। ९
शाम्यामि परिनिर्वामि सुखितोऽस्मि जयाम्यहम् ।
विबन्धाः प्रक्षयं याताः सर्वत्यागो मया कृतः ।। १०
दिगम्बरो दिक्सदनो दिक्समोऽयमहं स्थितः ।
देवपुत्र महात्यागात्किमन्यदवशिष्यते ।। ११
कुम्भ उवाच ।
सर्वमेव न संत्यक्तं त्वया राजन् शिखिध्वज ।
सर्वत्यागपरानन्दे मा मुधाभिनयं कुरु ।। १२
तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।
यं परित्यज्य निःशेषं परामायास्यशोकताम् ।। १३
श्रीवसिष्ठ उवाच ।
इति श्रुतवता तेन किंचित्संचिन्त्य भूभृता ।
इदमुक्तं महाबाहो राम राजीवलोचन ।। १४
शिखिध्वज उवाच ।
इन्द्रियव्यालसंघातो रक्तमांसमयाकृतिः ।
शिष्यते सर्वसंत्यागे देहो मे देवतात्मज ।। १५
तदुत्थाय पुनर्देहं भृगुपातादविघ्नतः ।
विनाशात्मकतां नीत्वा सर्वत्यागी भवाम्यहम् ।। १६
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा देहमग्रस्थे श्वभ्रे त्यक्तुमसौ जवात् ।
करोति यावदुत्थानं तावत्कुम्भोऽप्युवाच ह ।। १७
कुम्भ उवाच ।
राजन्किमिति देहं त्वं निरागस्कं महावटे ।
त्यजस्यज्ञो हि वृषभः कुपितो हन्ति तर्णकम् ।। १८
जडो वराको मूकात्मा तपस्वी देहको ह्ययम् ।
न कश्चन तवैतस्मिन्मा मुधैव तनुं त्यज ।। १९
आत्मन्येवैष मूकात्मा ध्यानवानवतिष्ठते ।
संचाल्यते परेणैव तरङ्गेणैव काष्ठकम् ।। २०
क्षोभयत्यन्य एवैनं निग्रहार्हो मुहुर्बलात् ।
तपस्विनं यथैकान्तं संस्थितं मत्ततस्करः ।। २१
सुखदुःखादिभूत्या हि नापराधि शरीरकम् ।
नात्मनः फलवानात्मस्पन्दे वृक्षोऽपराधवान् ।। २२
वातः फलशिरःपुष्पपातनं कुरुते स्फुरन् ।
तरुणा साधुना धीरापराद्धं किमात्मनः ।। २३
त्यक्तेनापि शरीरेण किल तामरसेक्षण ।
सर्वत्यागो न ते याति निष्पत्तिं विषमो हि सः ।। २४
भृगौ केवलमेतत्त्वं निरागस्कं शरीरकम् ।
मुधा क्षिपसि नो देहत्यागे तत्त्यागिता भवेत् ।। २५
येनायं क्षोभ्यते देहो मत्तेभेनेव पादपः ।
तत्संत्यजसि चेत्पापं तन्महात्यागवान्भवान् ।। २६
तस्मिंस्त्यक्ते भवेत्त्यक्तं सर्वं देहादि भूपते ।
नो चेन्निमग्नमप्येतद्भूयोभूयः प्ररोहति ।। २७
शिखिध्वज उवाच ।
केनायं चाल्यते देहः किं बीजं जन्मकर्मणाम् ।
कस्मिंस्त्यक्ते परित्यक्तं सर्वं भवति सुन्दर ।। २८
कुम्भ उवाच ।
साधो न देहत्यागेन न राज्यत्यजनेन च ।
न चोटजादिशोषेण सर्वत्यागो भवेन्नृप ।। २९
यत्सर्वं सर्वतो यच्च तस्मिन्सर्वैककारणे ।
सर्वस्मिन्संपरित्यक्ते सर्वत्यागः कृतो भवेत् ।। ३०
शिखिध्वज उवाच ।
सर्वं सर्वगतं सर्वहेयं त्याज्यं च सर्वदा ।
सर्वं किमुच्यते ब्रूहि सर्वतत्त्वविदां वर ।। ३१
कुम्भ उवाच ।
साधो सर्वगताकारं जीवप्राणादिनामकम् ।
न जडं नाजडं भ्रान्तं चित्तं सर्वमिति स्मृतम् ।।३२
चित्तमेव भ्रमं विद्धि विद्धि चेतो नरं नृप ।
चित्तं विद्धि जगज्जालं चित्तं सर्वमिति स्मृतम् ।। ३३
राज्यादेरथ देहादेराश्रमादेर्महीपते ।
सर्वस्यैव मनो बीजं तरुबीजं तरोरिव ।। ३४
सर्वस्य बीजे संत्यक्ते सर्वं त्यक्तं भवत्यलम् ।
संभवासंभवाद्भूप सर्वत्यागो भवेदिति ।। ३५
सर्वधर्माद्यधर्मा वा राज्यादि विपिनादि वा ।
सचित्तस्य परं दुःखं निश्चित्तस्य परं सुखम् ।। ३६
इदं विवर्तते सर्वं चित्तमेव जगत्तया ।
देहाद्याकारजालेन बीजं वृक्षतया यथा ।। ३७
पादपः पवनेनेव भूकम्पेनेव पर्वतः ।
भस्त्रा भस्त्राभरेणायं देहश्चित्तेन चाल्यते ।। ३८
सर्वभूतोपभोगानां जरामरणजन्मनाम् ।
महामुनीनां सुदृढं चित्तं विद्धि समुद्गकम् ।। ३९
इदं प्रवर्तते सर्वं चित्तमेव जगत्तया ।
देहाद्याकारजालेन चित्तं जीवो मनोमयम् ।। ४०
बुद्धिर्महदहंकारः प्राणश्चेत्यादिभिर्मुने ।
क्रियानुरूपैरभिधाव्यापारैः शान्तमुच्यते ।। ४१
चित्तं सर्वमिति प्राहुस्तस्मिंस्त्यक्ते महीपते ।
सर्वाधिव्याधिसीमान्तः सर्वत्यागः कृतो भवेत् ।। ४२
चित्तत्यागं विदुः सर्वत्यागं त्यागविदां वर ।
तस्मिन्सिद्धे महाबाहो सत्यं किं नानुभूयते ।। ४३
चित्ते त्यक्ते लयं याति द्वैतमैक्यं च सर्वतः ।
शिष्यते परमं शान्तमच्छमेकमनामयम् ।। ४४
अस्याश्चित्तं विदुः क्षेत्रं संसृतेः सस्यसंततेः ।
क्षेत्रे त्वक्षेत्रतां याते शालेः क इव संभवः ।। ४५
चित्तमेव विचित्रेहं भावाभावविलासिना ।
विवर्ततेऽर्थभावेन जलमूर्मितया यथा ।। ४६
चित्तोत्सादनरूपेण सर्वत्यागेन भूपते ।
सर्वमासाद्यते सम्यक् साम्राज्येनेव सर्वदा ।। ४७
सर्वत्यागस्य विषयो यथैवान्योऽस्ति ते तथा ।
त्वमप्यन्यस्य भवसि त्यागिन्गृह्णासि वै नृप ।। ४८
सूत्रं मुक्ताफलेनेव जगज्जालं त्रिकालकम् ।
सर्वमन्तः कृतं तेन येन सर्वं समुज्झितम् ।। ४९
येन सर्वं परित्यक्तं तस्मिञ्छून्येऽपि संस्थितम् ।
जगत्सर्वं त्रिकालस्थं तन्तौ मुक्तावली यथा ।। ५०
अस्नेहेनेव दीपेन येन सर्वं समुज्झितम् ।
सस्नेहेनेव दीपेन तेन सर्वं प्रकाशितम् ।। ५१
स्थितं सर्वं परित्यज्य यः शेतेऽस्नेहदीपवत् ।
स राजते प्रकाशात्मा समः सस्नेहदीपवत् ।। ५२
समस्तवस्तुनिष्कासे यथा त्वमवशिष्यसे ।
सर्वत्यागे कृते तादृग्विज्ञानमवशिष्यते ।। ५३
समस्तवस्तुदाहेऽपि यथा त्वं नेतरो नृप ।
सर्वत्यागत एवाङ्ग तथा निर्वाणमुच्यते ।। ५४
सर्वत्यागो हि शून्यात्मा आश्रयः सर्वसंविदाम् ।
अनन्तानामुदाराणां खमिवेदं दिवौकसाम् ।। ५५
सर्वत्यागरसापाने जरामरणभीतयः ।
न काश्चन प्रबाधन्ते खस्येव व्योमलेखिकाः ।। ५६
सर्वत्यागो महत्त्वस्य कारणं निर्मलद्युतेः ।
सर्वं त्यजसि चेद्यस्माद्बुद्धिस्थैर्यं बृहत्तमम् ।। ५७
सर्वत्यागः परानन्दो दुःखमन्यत्सुदारुणम् ।
इत्योमित्युररीकृत्य यदिच्छसि तदाचर ।। ५८
सर्वं त्यजति यस्तस्य सर्वमेवोपतिष्ठते ।
यथैवाम्बु विशत्यग्नौ तथैवायाति वारिधौ ।। ५९
सर्वत्यागान्तरेवास्ति ज्ञानमात्मप्रसादकम् ।
यच्छून्यं किल भाण्डस्य तत्र रत्नादि तिष्ठति ।। ६०
सर्वत्यागवशादेव हृतकाले कलावपि ।
शाक्येन विगताशङ्कं मुनिना मेरुवत्स्थितम् ।। ६१
सर्वत्यागो महाराज सर्वसंपत्समाश्रयः ।
न गृह्णाति हि यत्किंचित्सर्वं तस्मै प्रदीयते ।। ६२
कृत्वा सर्वपरित्यागं शान्तः स्वस्थो वियत्समः ।
सौम्यो भवसि यद्रूपस्तद्रूपो भव भूपते ।। ६३
सर्वं परित्यज्य महास्वभाव
त्यजस्यथो येन च तद्विहाय ।
त्यागाभिमानं च मलं विमुच्य
विमुक्तरूपो भव भूमिपाल ।। ६४
इत्यार्षे श्रीवासिष्ठमहारामा० वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे पू० चू० शिखिध्वजावबोधनं नाम त्रिनवतितमः सर्गः ।। ९३ ।।