देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः २८

विकिस्रोतः तः
नारदेन स्वस्त्रीत्वप्राप्तिवर्णनम्

नारद उवाच
निशामय मुनिश्रेष्ठ गदतो मम सत्कथाम् ।
मायाबलं सुदुर्ज्ञेयं मुनिभिर्योगवित्तमैः ॥ १ ॥
मायया मोहितं सर्वं जगत्स्थावरजङ्गमम् ।
ब्रह्मादिस्तम्बपर्यन्तमजया दुर्विभाव्यया ॥ २ ॥
कदाचित्सत्यलोकाद्वै श्वेतद्वीपे मनोहरे ।
गतोऽहं दर्शनाकाङ्क्षी हरेरद्‌भुतकर्मणः ॥ ३ ॥
वादयन्महतीं वीणां स्वरतानविभूषिताम् ।
गायत्रं गायमानस्तु साम सप्तस्वरान्वितम् ॥ ४ ॥
दृष्टो मया देवदेवश्चक्रपाणिर्गदाधरः ।
कौस्तुभोद्‌भासितोरस्को मेघश्यामश्चतुर्भुजः ॥ ५ ॥
पीताम्बरपरीधानो मुकुटाङ्गदराजितः ।
लक्ष्म्या सह विलासिन्या क्रीडमानो मुदा युतः ॥ ६ ॥
वीक्ष्य मां कमला देवी गतान्तर्धानमन्तिकात् ।
सर्वलक्षणसम्पन्ना सर्वभूषणभूषिता ॥ ७ ॥
नारीणां प्रवरा कान्ता रूपयौवनगर्विता ।
सुप्रिया वासुदेवस्य वरचामीकरप्रभा ॥ ८ ॥
अन्तर्गृहं गता दृष्ट्वा सिन्धुजां व्यञ्जनान्विताम् ।
मया पृष्टो देवदेवो वनमाली जगत्प्रभुः ॥ ९ ॥
भगवन्देवदेवेश पद्मनाभ सुरारिहन् ।
कथं च मा गता दृष्ट्वा मामागच्छन्तमन्तिकात् ॥ १० ॥
नाहं विटो न वा धूर्तः तापसोऽहं जगद्‌गुरो ।
जितेन्द्रियो जितक्रोधो जितमायो जनार्दन ॥ ११ ॥
नारद उवाच
निशम्य वचनं किञ्चिद्‌गर्वयुक्तं जनार्दनः ।
उवाच मां स्मितं कृत्वा वीणावन्मधुरां गिरम् ॥ १२ ॥
विष्णुरुवाच
नारदैवंविधा नीतिर्न स्थातव्यं कदाचन ।
पतिं विनान्यसानिध्ये कस्यचिद्योषया क्वचित् ॥ १३ ॥
माया सुदुर्जया विद्वन् योगिभिर्जितमारुतैः ।
सांख्यविद्‌भिर्निराहारैस्तापसैश्च जितेन्द्रियैः ॥ १४ ॥
देवैश्च मुनिशार्दूल यत्त्वयोक्तं वचोऽधुना ।
जितमायोऽस्मि गीतज्ञ नैवं वाच्यं कदाचन ॥ १५ ॥
नाहं शिवो न वा ब्रह्मा जेतुं तां प्रभवोऽप्यजाम् ।
मुनयः सनकाद्याश्च कस्त्वं केऽन्ये क्षमा जये ॥ १६ ॥
देवदेहं नृदेहं वा तिर्यग्देहमथापि वा ।
बिभृयाद्यः शरीरं च स कथं तां जयेदजाम् ॥ १७ ॥
त्रियुतस्तां कथं मायां जेतुं शक्तः पुमाम्भवेत् ।
वेदविद्योगविद्वापि सर्वज्ञो विजितेन्द्रियः ॥ १८ ॥
कालोऽपि तस्या रूपं हि रूपहीनः स्वरूपकृत् ।
तद्वशे वर्तते देही विद्वान्मूर्खोऽथ मध्यमः ॥ १९ ॥
कालः करोति धर्मज्ञं कदाचिद्विकलं पुनः ।
स्वभावात्कर्मतो वापि दुर्ज्ञेयं तस्य चेष्टितम् ॥ २० ॥
नारद उवाच
इत्युक्त्वा विरतो विष्णुरहं विस्मयमानसः ।
तमब्रवं जगन्नाथं वासुदेवं सनातनम् ॥ २१ ॥
रमापते कथंरूपा माया सा कीदृशी पुनः ।
कियद्‌बला क्व संस्थाना कस्याधारा वदस्व मे ॥ २२ ॥
द्रष्टुकामोऽस्मि तां मायां दर्शयाशु महीधर ।
ज्ञातुमिच्छामि तां सम्यक्प्रसादं कुरु मापते ॥ २३ ॥
विष्णुरुवाच
त्रिगुणा साखिलाधारा सर्वज्ञा सर्वसम्मता ।
अजेयानेकरूपा च सर्वं व्याप्य स्थिता जगत् ॥ २४ ॥
दिदृक्षा यदि ते चित्ते नारदारोहणं कुरु ।
गरुडे मत्समेतोऽद्य गच्छावोऽन्यत्र साम्प्रतम् ॥ २५ ॥
दर्शयिष्यामि ते मायां दुर्जयामजितात्मभिः ।
दृष्ट्वा तां ब्रह्मपुत्र त्वं विषादे मा मनः कृथाः ॥ २६ ॥
इत्युक्त्वा देवदेवो मां सस्मार विनतासुतम् ।
स्मृतमात्रस्तु गरुडस्तदागाद्धरिसन्निधौ ॥ २७ ॥
आगतं गरुडं वीक्ष्य आरुरोह जनार्दनः ।
समारोप्य च मां पृष्ठे गमनाय कृतादरः ॥ २८ ॥
चलितो विनतापुत्रो वैकुण्ठाद्वायुवेगवान् ।
प्रेरितो यत्र कृष्णेन गन्तुकामेन काननम् ॥ २९ ॥
महावनानि दिव्यानि सरांसि सरितस्तथा ।
पुरग्रामाकरादींश्च खेटखर्वटगोव्रजान् ॥ ३० ॥
मुनीनामाश्रमान् रम्यान् वापीश्च सुमनोहराः ।
पल्वलानि विशालानि ह्रदान् पङ्कजभूषितान् ॥ ३१ ॥
मृगाणां च वराहाणां वृन्दान्यप्यवलोक्य च ।
गतावावां कान्यकुब्जसमीपं गरुडासनौ ॥ ३२ ॥
तत्र रम्यं सरो दिव्यं दृष्टं पङ्कजमण्डितम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ३३ ॥
नानावर्णैः प्रफुल्लैश्च पङ्कजैरुपरञ्जितम् ।
शुचि मिष्टजलं भृङ्गयूथनादविराजितम् ॥ ३४ ॥
मामाह भगवान् वीक्ष्य तडागं परमाद्‌भुतम् ।
स्पर्धकं चोदधेः क्षीरं मिष्टं वारि विशेषतः ॥ ३५ ॥

श्रीभगवानुवाच
पश्य नारद गम्भीरं सरः सारसनादितम् ।
सर्वत्र पङ्कजैश्छन्नं स्वच्छनीरप्रपूरितम् ॥ ३६ ॥
अत्र स्नात्वा गमिष्यावः कान्यकुब्जं पुरोत्तमम् ।
इत्युक्त्वा गरुडादाशु मामुत्तार्य व्यतारयत् ॥ ३७ ॥
विहस्य भगवांस्तत्र जग्राह मम तर्जनीम् ।
स्तुवन्सरोवरं भूयस्तीरे मामनयत्प्रभुः ॥ ३८ ॥
विश्रम्य तटभागे तु स्निग्धच्छाये मनोहरे ।
मामुवाच मुने स्नानं कुरु त्वं विमले जले ॥ ३९ ॥
पश्चादहं करिष्यामि तडागेऽस्मिन्सुपावने ।
साधूनामिव चेतांसि जलानि निर्मलानि च ॥ ४० ॥
सुरभीणि परागैस्तु पङ्कजानां विशेषतः ।
इत्युक्तोऽहं भगवता मुक्त्वा वीणां मृगाजिनम् ॥ ४१ ॥
स्नानाय कृतधीस्तीरे गतः प्रेमसमन्वितः ।
पादौप्रक्षाल्य हस्तौच शिखां बद्ध्वा कुशग्रहम् ॥ ४२ ॥
कृत्वाऽऽचम्य शुचिस्तोये स्नातवानस्मि तज्जले ।
यदा तस्मिज्जले रम्ये स्नातोऽहं पश्यतो हरेः ॥ ४३ ॥
विहाय पौरुषं रूपं प्राप्तः स्त्रीत्वमनुत्तमम् ।
हरिर्गृहीत्वा वीणां मे तथा कृष्णाजिनं शुभम् ॥ ४४ ॥
आरुह्य गरुडं तूर्णं जगाम स्वगृहं क्षणात् ।
ततोऽहं स्त्रीत्वमापन्नश्चारुभूषणभूषितः ॥ ४५ ॥
तत्क्षणान्मनसो जाता पूर्वदेहस्य विस्मृतिः ।
विस्मृतोऽसौ जगन्नाथो महती विस्मृता पुनः ॥ ४६ ॥
सम्प्राप्य मोहिनीरूपं तडागान्निर्गतो बहिः ।
अपश्यं नलिनीजुष्टं सरस्तद्विमलोदकम् ॥ ४७ ॥
किमेतदिति मनसाकरवं विस्मयं मुहुः ।
एवं चिन्तयमानस्य नारीरूपधरस्य मे ॥ ४८ ॥
सहसा दृक्पथं प्राप्तस्तत्र तालध्वजो नृपः ।
गजाश्वरथवृन्दैश्च संवृतो रथसंस्थितः ॥ ४९ ॥
युवा भूषणसंवीतो देहवानिव मन्मथः ।
वीक्ष्य मां भूपतिस्तत्र दिव्यभूषणभूषिताम् ॥ ५० ॥
राकाचन्द्रमुखीं योषां विस्मयं परमं गतः ।
पप्रच्छ कासि कल्याणि कस्य पुत्री सुरस्य वा ॥ ५१ ॥
मानुषस्य च वा कान्ते गन्धर्वस्योरगस्य च ।
एकाकिनी कथं बाला रूपयौवनभूषिता ॥ ५२ ॥
विवाहिताथ कन्या वा सत्यं वद सुलोचने ।
किं पश्यसि सुकेशान्ते तडागेऽस्मिन्सुमध्यमे ॥ ५३ ॥
चिकीर्षितं पिकालापे ब्रूहि मन्मथमोहिनि ।
भुङ्क्षव भोगान्मरालाक्षि मया सह कृशोदरि ।
वाञ्छितान्मनसा नूनं कृत्वा मां पतिमुत्तमम् ॥ ५४ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे नारदेन स्वस्त्रीत्वप्राप्तिवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥