अग्निपुराणम्/अध्यायः १८२

विकिस्रोतः तः
सप्तमीव्रतानि
अग्निपुराणम्
















अग्निरुवाच
सप्तमीव्रतकं वक्ष्ये सर्वेषां भुक्तिमुक्तिदं(२) ।१८२.००१
माघमासेऽब्जके शुक्ले सूर्यं प्रार्च्य विशोकभाक् ॥१८२.००१
सर्वावाप्तिस्तु सप्तभ्यां मासि भाद्रेऽर्कपूजनात् ।१८२.००२
पौषे मासि सितेऽनश्नन् प्रार्च्यार्कं पापनाशनं ॥१८२.००२
कृष्णपक्षे तु माघस्य सर्वावाप्तिस्तु सप्तमी ।१८२.००३
फाल्गुने तु सिते नन्दा सप्तमी चार्कपूजनात् ॥१८२.००३
मार्गशीर्षे सिते प्रार्च्य सप्तमी चापराजिता ।१८२.००४
मार्गशीर्षे सिते चाब्दं पुत्रीया सप्तमी स्त्रियाः ॥१८२.००४
टिप्पणी
२ सर्वथा भुक्तिमुक्तिदमिति घ.. , ज.. , झ.. च


इत्याग्नेये महापुराणे सप्तमीव्रतानि नाम द्व्यशीत्यधिकशततमोऽध्यायः ॥