पृष्ठम्:भामती.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ ३ पाक १७१०]
[भमती]
[५३३]

वेदार्थमुपलक्षयन्त्या वेदार्थानुष्ठानशोषस्त्वमाचारस्योक्तं न तु स्खतन्त्र आचारः फलस्य साधनं, तेन वेदार्थानुष्ठा नोपकारकतया ऽऽचारस्य नानर्थक्यं क्रत्वर्थस्य । तदनेन समिदादिवदाचारस्य क्रधर्थत्वमुक्तं संप्रति स्नानादिवत्पुरु पार्थस्य पुरुषसंस्कारत्वेयदोष इत्याच । “पुरुषार्थचेट्याच रस्येति । तदेवं चरणशब्देनाचारवाचिना सर्वानुशयो लक्षित इत्युक्तम् । बादरिस्तु मुख्य एव चरणशब्दः कर्म णीत्याह ।

सुकृतदुष्कृते एवेति बादरिः॥११॥

ब्राह्मणपरिव्राजकन्यायो गोबलीवर्दन्यायः । शेषमनिरो हितार्थम् ॥

अनिष्टादिकारिणामपि च श्रुतम् ॥१२॥

ये चैके चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति कैषीतकिनां समाम्नानाद्देदारम्भस्य च चन्द्रलोकगमनमन्त रणनुपपत्तेः । पञ्चयामाहुतावित्याहुतिसंख्यानियमात् । त थादि युसोमवृष्ट्यन्नरेतःपरिणामक्रमेण ता एवापो योषि दने हुताः पुरुषवचसो भवन्तीत्यविशेषेण श्रुतम् । न चैतन्मनुष्याभिप्रायं कपूयचरणाः श्वयोनिमित्यमनुष्यस्यापि श्रवणात् । गमनागमनाय च देवयानपिढ्याणयोरेव मा र्गयोराननात् पथ्यन्तरस्याश्रुनेर्जायस्खश्रियखेति तृतीयं स्था नमिति च स्थानत्वमात्रेणावगमान् पथिवेनप्रतीतेः । च द्रलोकादवतीर्णानामपि च तस्यानघसंभवादसंपूरणेन प्र तिवचनोपपत्तेः । अनन्यमार्गतया च तद्भोगविरचिणामपि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५४१&oldid=141549" इत्यस्माद् प्रतिप्राप्तम्