पृष्ठम्:भामती.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[न-२ पा.२.२८]
[भामती]
[४४९]

तस्मान्नार्थे न च() आने स्यूनाभासस्तदात्मनः ।
एकत्र प्रतिषिद्वत्वद्इय्वपि न संभवः ॥ इति ।

तस्माद्भवतापि ज्ञानाकारं स्थूल्यं समर्थयमानेन प्रमा णप्रवृत्यप्रवृत्तिपूर्वकं संभवासंभवावास्यैयै । तथा चेदंता स्पदमशक्यं ज्ञानाद्भिन्नं बाङ्मपहोतुमिति । यच्च ज्ञानस्य प्रत्यर्थी व्यवस्थायै विषयसारूप्यमास्थितं नैतेन विषयो ऽ पझोतुं शक्यः । असत्यर्थं तत्सारूप्यस्य तद्यवस्थायाश्चानु पपत्तेरित्याह । 'न च ज्ञानस्य विषयसारूप्यादिति । यशच सदोपलम्भनियम उक्तः सोपि विकरूपं न सचते । यदि शनार्थयोः सावित्वेनोपलम्भस्ततो विरुवे हेतुना भेदं साधयितुमर्हति । सावित्यस्य तद्विरुद्वभेदव्याप्तत्वात् । अभेदे तदनुपपत्तेः । अथैकोपलम्भनियमः । न । एकत्व स्यावाचकः सदशब्दः । अपि च किमेकत्वेनोपलम्भ आ हो एक उपलम्भे ज्ञानार्थयोः । न तावदेकस्वेनोपम्भ इत्याच । "बहिरुपलब्धेश्च विषयस्य” । अथैकोपलम् नियमस्तत्राद् । "अत एव सञ्चपलम्भनियमोपि प्रत्यय विषययोरुपायोपेयभावहेतुको नाभेदतुक इत्यवगन्तव्य म्” । यथा चि सर्वे चाक्षुषं प्रभारूपानुविदं बुद्धिबोध्यं नियमेन मनुजैरुपलभ्यते न चैतावता घटादिरूपं प्रभा त्मकं भवति किं तु प्रभोपायस्वान्नियम एवमिदप्यात्म साक्षिकानुभवोपायत्वादर्थस्यैकोपलम्भनियम इति । अपि । च यथैकविज्ञानगोचरौ घटपटे तत्रार्थभेदं विज्ञानभेद


(१) वि-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४५१&oldid=141227" इत्यस्माद् प्रतिप्राप्तम्