पृष्ठम्:भामती.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.२.१८]
[४९२]

समुदायउभयहेतुकेपि तदप्रप्तिः॥ १८ ॥

अवान्तरसङ्गतिमाद । "वैशेषिकरादान्त” इति । वैशे षिकाः खल्वर्धवैनाशिकास्ते वि परमाण्वाकाशदिकाला त्ममनसां च सामान्यविशेषसमवायानां च गुणानां च केषां चिन्नित्यत्वमभ्युपेत्य शेषाणां निरन्वयविनाशमुपय न्ति, तेन तेर्धवैनाशिकास्तेन तदुपन्यासो वैनाशिकत्वसा स्थेन सर्ववैनाशिकान् कारयतीति तदनन्तरं वैनाशिकम तनिराकरणमिति । अर्धवैनाशिकानां स्थिरभाववादिनां समुदायारम्भ उपपद्येतापि क्षणिकभाववादिनां त्वमै दू राषेत इत्युपपादयिष्यामः । तेन नतरामित्युक्तम् । तदिदं दूषणाय वैनाशिकमतमुपन्यसितुं तत्प्रकारभेदानाच। "स- च बहुप्रकार” इति । वादिवैचित्र्यात् खलु के चित्सर्वाति त्वमेव राङन्तं प्रतिपद्यन्ते, के चिउज्ञानमात्रस्तित्वं, के चित्सर्वहन्यताम्अथ त्वत्रभवतां सर्वज्ञानां तत्त्वप्रति पत्तिभेदो न संभवति तत्त्वस्यैकरूप्यादित्येतदपरितोषेणा ६ । "विनेयभेदाद्वा” । चीनमध्यमोत्कृष्टधियो हि शिष्या भवन्ति । तत्र ये चीनमतयस्ते सर्वास्तित्ववादेन तदाश यानुरोधात् ठून्यतायामवतार्यन्ते । ये तु मध्यमास्ते - नमाचास्तिन्त्वेन शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतय रजोभ्यः साक्षादेव भूचनानवं प्रतिपाद्यते । यथोक्तं बोधि चित्तविवरणे ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४१८&oldid=141163" इत्यस्माद् प्रतिप्राप्तम्