पृष्ठम्:भामती.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र-२.१.२]
[भामती]
[३७६]

उपपद्यते चयुपलभ्यते च ॥ ३६ ॥

अकृते कर्मणि पुण्ये पापे वा तत्फलं भोक्तारमध्याग च्छेत्() तथा च विधिनिषेधशास्त्रमनर्थकं भवेत् प्रवृत्तिनि वृत्त्यभावादिति मोक्षशास्त्रस्य चोक्तमानर्थक्यम् । न च विद्या केवलेति लयाभिप्रायम् । विक्षेपलक्षणाविद्यासं स्कारस्तु कार्यत्वात्पत्ते पूर्वं विक्षेपमपेक्षते, विक्षेपश्च मिथ्याप्रत्ययो मोहापरनामा पुण्यापुण्यप्रवृत्तिहेतुभूतराग दोषनिदानंस च रागादिभिः सहितः खकथैिनं शरीरं सुखदुःखभोगायतनमन्तरेण संभवति । न च रागदोषाव न्तरेण कर्म, न च भोगसहितं मदमन्तरेण रागढबै न च पूर्वशरीरमन्तरेण मोचदिरिति पूर्वपूर्वशरीरापेक्षे मोचादिरेवं पूर्वपूर्वमोहाद्यपेक्ष पूर्वपूर्वशरीरमित्यनादिनैवा त्र भगवती चित्तमनाकुलयति । तदेतदाह । `रागादि क्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्या”दिति । रागद्वेषमोहा रागादयस्तएव दि पुरुषं संसारदुःखमनुभा व्य क्लेशयन्तोति क्लेशास्तेषां वासनाः कर्मप्रवृत्त्यनुगुणास्ता भिराक्षिप्तानि प्रवर्तितानि कर्माणि तदपेक्षलयलक्षणा विद्या । स्यादेतत् । भविष्यता ऽपि । व्यपदेशो दृष्टो यथा पुरोडाश कपालेन तुषानुपवयतीत्यत आच। “न च धारयिष्यतीत्यत” इति । तदेवमनादित्वे सिद्धे सदेव सैम्येदमग्र आसीदेक मेवाद्वितीयमिति प्राक् सृष्टेरविभागावधारणं समुदाचरडू {{rule]} (१) मभ्युपगच्छत् _० 3 । मभ्यागच्छेत्-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३८१&oldid=141088" इत्यस्माद् प्रतिप्राप्तम्