पृष्ठम्:भामती.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२.पा.१ झ. १४]
[३५३]

पनीयते, अपि तु मिथ्याज्ञानेनारोपितमित्यर्थः। चोदयति । “नन्वेकत्वैकान्ताभ्युपगम” इति। अबाधितानधिगतासंदिग्ध विज्ञानसाधनं प्रमाणमिति प्रमणसामान्यलक्षणोपपत्या प्र त्वशदीनि प्रमाणनामनुवते । एकत्वैकान्ताभ्युपगमे तु तेषां सर्वेषां भेदविषयाणां बाधितत्वादप्रामाण्यं प्रसज्येत । तथा विधिप्रतिषेधशाखमपि भावनाभाव्यभावककरणेतिकर्तव्यता भेदपेक्षत्वाद्ध्यादन्येत । तथा च नास्तिक्यमेकदेशापे ण च सर्ववेदाक्षेपाद्देदान्तानामप्यप्रामाण्यमित्यभेदैकान्ताभ्यु पगमद्वनिः । न केवलं विधिनिषेधाक्षेपेणास्य मोक्षशास्र स्याक्षेपः खरूपेणास्यापि भेदापेक्षत्वादित्याच । “मोक्षशाख स्यापीति । अपि चास्मिन् दर्शने वर्णपदवाक्यप्रकरणादी नामलीकत्वात्तत्प्रभवमद्वैतज्ञानमसमीचीनं भवेत्, न खल्व लीकाडूमालूमकेतनज्ञानं समीचीनमित्याच । "कथं चा नृतेन मोक्षशास्त्रेणे’ति । परिद्वरति। "अत्रोचयत’इति । यद्यपि प्रत्यक्षादीनां तात्विकमबाधितत्वं नास्ति, युक्त्यग माभ्य बाधनात्तथापि । व्यवचरे बाधनाभावात्सांव्यव द्वारिकमबाधनम् । नदि प्रत्यशादिभिरर्थे परिच्छिद्य प्र वर्तमानो व्यवचारे विसंवाद्यते सांसारिकः कश्चित् । तस्मा दबाधनान१) प्रमाणलक्षणमतिपतन्ति प्रत्यक्षादय इति । “सत्यत्वोपपत्ते’रिति । सत्यत्वाभिमानोपपत्तेरिति । ग्र दणकवाक्यमेतद्विभजते । "यावद्धि न सत्यात्मैकत्वप्रतिप त्तिरिति । विकारानेव तु शरीरादीनदमित्यत्मभावेन


(१) तस्मादनपबाधनान्न-पा० २ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३५८&oldid=141063" इत्यस्माद् प्रतिप्राप्तम्