अग्निपुराणम्/अध्यायः २१३

विकिस्रोतः तः
← अध्यायः २१२ अग्निपुराणम्
अध्यायः २१३
वेदव्यासः
अध्यायः २१४ →
अग्निपुराणम्
















पृथ्वीदानानि

अग्निरुवाच
पृथ्वीदानं प्रवक्ष्यामि पृथिवी त्रिविधा मता ।२१३.००१
शतकोटिर्योजनानां सप्तद्वीपा ससागरा ॥२१३.००१
जम्बुद्वीपावधिः सा च उत्तमा मेदिनीरिता ।२१३.००२
उत्तमां पञ्चभिर्भारैः काञ्चनैश्च प्रकल्पयेत् ॥२१३.००२
तदर्धान्तरजं कूर्मं तथा पद्मं समादिशेत् ।२१३.००३
उत्तमा कथिता पृथ्वी द्व्यंशेनैव तु मध्यमा ॥२१३.००३
कन्यसा च त्रिभागेन(१) त्रिहान्या कूर्मपङ्कजे ।२१३.००४
पलानान्तु सहस्रेण कल्पयेत्कल्पपादपं ॥२१३.००४
मूलदण्डं सपत्रञ्च फलपुष्पसमन्वितं ।२१३.००५
टिप्पणी
१ स्वल्पा सा तु त्रिभागेनेति ङ.. , ट.. च

पञ्चस्कन्धन्तु सङ्कल्प्य पञ्चानान्दापयेत्सुधीः ॥२१३.००५
एतद्दाता ब्रह्मलोके पितृभिर्मोदते चिरं ।२१३.००६
विष्ण्वग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः ॥२१३.००६
ब्रह्मविष्णुमहेशाद्या देवा धेनौ व्यवस्थिताः ।२१३.००७
धेनुदानं सर्वदानं सर्वद ब्रह्मलोकदं ॥२१३.००७
विष्ण्वग्रे कपिलां दत्त्वा तारयेत्सकलं कुलं ।२१३.००८
अलङ्कृत्य स्त्रियं दद्यादश्वमेधफलं लभेत्(१) ॥२१३.००८
भूमिं दत्त्वा सर्वभाक्स्यात्सर्वशस्य प्ररोहिणीम् ।२१३.००९
ग्रामं वाथ पुरं वापि(२) खेटकञ्च दद्त्सुखी ॥२१३.००९
कार्त्तिक्यादौ(३) वृषोत्सर्गं कुर्वंस्तारयते कुलं(४) ॥१०॥२१३.०१०
इत्याग्नेये महापुराणे पृथ्वीदानानि नाम त्रयोदशाधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ नरमेधफलं लभेदिति ग.. , ङ.. , ञ.. च
२ पुरीं वापीति ख..
३ कार्त्तिकादाविति ख.. , ट.. च
४ कुर्वन् सन्तारयेत्कुलमिति ग.. , घ.. , ङ.. , ट.. च