पृष्ठम्:भामती.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ऊ.१ पा.४ .२०]
[३१५]

प्रतिज्ञसिद्धेर्लिङ्गमाश्मरथ्यः॥२०॥

यथा दि वहेर्विकारा व्युच्चरन्ते विस्फुलिङ्गा न वहेर त्यन्तं भिद्यन्ते तदूपनिरूपणत्वानपि ततोत्यन्तमभिन्न वर्ते रिव परस्परव्यावृत्त्यभावप्रसङ्गात्तथा जीवात्मानपि च विकारा न ब्रह्मणेत्यन्तं भिद्यन्ते चिहूपत्वाभावप्रसङ्गा नप्यत्यन्तं न भिद्यन्ते () परस्परं व्यावृत्यभावप्रसङ्गात् सर्वशं प्रत्युपदेशवैयर्याच्च । तस्मात्कथं चिद्वेदो । जीवात्म नामभेदश्च । तत्र तद्दिज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये वि ज्ञानात्मपरमात्मनेरभेदमुपादाय परमात्मनि दर्शयितव्ये विज्ञानात्मनेपक्रम इत्याश्रय आचार्यों मेने । आचार्य देशयान्तरमतेन समाधत्ते ॥

उत्क्रमिष्यतएवंभवदित्यौडुलोमिः॥ २१ ॥

जोहो चि परमात्मनेत्वन्तं | भिन्न एव सन् देचेन्द्रियम नेबुवुपधानसंपर्कात्सर्वदा कलुषस्तस्य च ज्ञानध्यानादिसा धनानुष्ठानात्संप्रसन्नस्य देवेन्द्रियादिसंघातादुत्क्रमिष्यतः प रमात्मनैक्योपपत्तेरिदमभेदेनेपक्रमणम् । एतदुक्तं भवति । भविष्यन्तमभेदमुपादाय भेदकालेप्यभेद उक्तः । यथाहुः पावरात्रिकाः ।

आमुक्तंभेद एव स्याज्जीवस्य च परस्य च ।
मुक्तस्य तु न भेदे ऽस्ति भेदहेतेरभावतः ॥ इति ।


(१) प्यत्यन्तमभिन्न:-प० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३२०&oldid=141023" इत्यस्माद् प्रतिप्राप्तम्