पृष्ठम्:नवरात्रप्रदीपः.djvu/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
प्रतिपद्दिनकृत्यनिर्वचनम्

गेव । तथा कुलपूज्याऽपि देवी पूजनीया । तदुक्तं व्रतखण्डे --

 यस्य यस्ये हि या देवी कुलमार्गेण संस्थिता ।
 तेन तेन च सा पूज्या बलिगन्धाऽनुलेपनैः ॥
 नैवेद्यैर्विविधैश्चैव नवरात्रे समन्वितः ।
 नानाविधैः सुकुसुमैः पूजयेत्कुलमातरम् ॥

तथा प्रत्यह कुमारीभोजनं कार्यम् । तदुक्तं स्कान्दे--

 एकैकां पूजयेत्कन्यामेकवृद्धां तथैव च ।
 द्विगुणं त्रिगुणं वाऽपि प्रत्येकं नवकं तथा ॥
 एकवर्षा तु या कन्या पूजार्थं तां विवर्ज्जयेत् ।
 गन्धपुष्पफलादीनां प्रीतिस्तस्या न विद्यते ।
 अरोगिणीं सुपुष्टाङ्गीं सुरूपां ब्रह्मवर्ज्जिताम् ।
 समानवंशसम्भूतां कन्यां सम्यक् प्रपूजयेत् ।।

वंशस्य समानत्व पूजकवंशाऽपेक्षया । तेन ब्राह्मणस्य ब्राह्मणी क्षत्रियस्य क्षत्रिया इत्यादि वक्ष्यते । कामनायां पुनर्विशेषस्तत्रैव--

 ब्राह्मणीं सर्व्वकार्येषु जयार्थे नृपवंशजाम् ।
 लाभार्थे वैश्यवंशोत्थां सुतार्थे शू्द्र्वंशजाम् ॥