पृष्ठम्:नवरात्रप्रदीपः.djvu/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
नवरात्रपदीपे-

 क्तानामदर्शनस्य कल्पयितुमशक्यत्वात् । यदपि  अश्वयुक्प्रतिपद्येव शुक्लायामपराह्णके ।  कलशस्थापनं कुर्याद्वित्वा चित्रां च वैधृतिम् ।। इति ।  तथा--

  त्वाष्ट्रवैधृतियुक्ता चेत्प्रतिपच्चण्डिकार्च्चने ।
  तयोरन्ते विधातव्य कलशारोपणं गुह !॥

 इति वचनं, तदप्यश्वनीराजनाङ्गकलशस्थापनविषयं गम्यते ।

  आरभ्य नवरात्रं स्यात्प्रतिपद्याश्विने सिते ।
  वाजिनीराजनं पश्चाद्धित्वा चित्रां च वैधृतिम् ॥

 इत्यश्वशास्त्रीयवचनैकमूलत्वात् । अत एव ब्रह्मपुराणे चित्रापरिहाराऽभिप्रायेणैव स्वातियोगेऽश्वपूजा विहिता । यथा--

  अश्वयुक्शुक्लपक्षे तु स्वातियोगे शुभे दिने ।
  पूर्वमुच्चै:श्रवा नाम प्रथमं सूर्यवाहनम् ॥
  तस्मात्सोऽश्वचरैस्तत्र पूज्यो वै श्रद्धया सद।।
  पूजनीयाश्च तुरगा नवमीं यावदेव हि ॥ इति ।