पृष्ठम्:न्यायमकरन्दः.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७७ न्यायमकरन्दे मू०-राधरभावेन निरन्तरोत्पादक्लेशादिदोषदूषितबोधस न्ततिविच्छेदलक्षणो मोक्ष इति, तदाहुः “ प्रदीपस्येव निर्वाणं विमोक्षस्तस्य ता यिन’’ इति । अपरे पुनर्भवनाप्रकर्षपरिलब्धपरिशुद्धचितसन्ता नम्, अपरे तु बोधादिनिखिलवैशेषिकगुणोच्छेदेन क्षे त्वज्ञस्य स्वरूपावस्थानम्, अन्ये तु प्रलीननिखिलोपाधेः क्षेत्रज्ञस्य सततोर्जगतिलक्षणम्, । टी०-भावेन निरन्तरमुपादो येष वोधानां ते तथ क्लेशा=रागद्वे षमोहा’, आदिब्दद्विषयकारखासनाः , ते च ते क्लेशादिदूषिताश्च, तेषां बोधानां सन्तानं तस्योच्छेद इति यावद्,उत्कर्षापकर्षभावेन निरन्तरोत्पादवन्तो ये क्लेशादयस्तदूषितबोधसन्तानस्यपरम इति वा । बद्धस्यात्मनो बन्धेन सह नाश एव मोक्ष इत्यर्थ । तायिनो=विस्तारिणो बोधसन्तानस्य निर्वाणं=निवृतिः स एव मोक्ष इति यावत् । योगाचारमतमाह-‘‘ अपर इति, । क्षणिकदुःखशून्य स्वलक्षणभावनाप्रकर्षेण जनितः परिशुद्ध =बिषयाकाराद्युपप्लवन्यो यश्चितसन्तानस्तस्योत्पाद एव मोक्ष इत्यर्थः, । नैय्यायिकमतमाह अपरे ” इति, सु त । आदिशब्देन - ववुःखेछठेषप्रयत्नधर्माधर्मसंस्कारा विशेषगुणा गृह्यन्ते, संख्या दिसामान्यगुणानां मुक्त्यवस्थायामपिभवद् वैशेषिकग्रहणम, । जैनमतमाह-‘‘ अन्येतु ’” इति, । प्रविलीना निखिलाः शरीरेन्द्रियकर्मप्रभृतय उपाधयो यस्य स तथा तस्येति यावत् । ” 8B