पृष्ठम्:भामती.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१पा ३ .४१]
[२७७]

खाश्च रुढिपरित्यागस्यायेोगात् । नामरूपे अन्तरा ब्रह्नोति च नाकाशस्य नामरूपयेोर्निर्वचितुरन्तरालत्वमाचापि तु ब्र ह्मणस्तेन भृताकाशे नामरुपयेर्निर्वहिता । ब्रह्मा चैतये रन्तराखं मध्यं सारमिति यावत् । न तु निर्वाद्वैव ब्रह्म श्रन्तरालं वा निर्वेढ । तस्मात्प्रसिद्देर्भताकाशमेवाकाशे न तु ब्रह्मति प्राप्तम् । एवं प्राप्तउच्यते । परमेवाकाशं ब्रह्म ‘कस्मादर्थान्तरत्वादिव्यपदेशात्” । नामरुपमाचनिर्वाच क.मचाकाशमुच्यते । भूताकाशं च विकारत्वेन नामरु पान्तःपाति सत्कथमात्मानमुद्दछेत् । नहि सुशिक्षितेपि विज्ञानी खेन स्कन्धेनात्मानं वेोढुमुत्सच्छते । न च नाम रूपश्रुतिरविशेषतः प्रवृत्ता भूताकाशवजें नामरूपान्तरे सं कोचयितुं सति संभवे युज्यते, न च निर्वाचकत्वं निरडु शमवगतं ब्रह्म लिङ्गं कथं चित्लेशेन परतन्त्रे नेतुमुचितम्। अनेन जीवेनात्मना ऽनुप्रविश्य नामरूपे व्याकरवाणीति च तत्स्रष्ट्टत्वमतिस्पष्टं ब्रह्मालिङ्गमत्र प्रतीयते । ब्रह्मरूप तया च जावस्य व्याकातृत्व ब्रह्मण एव व्याकातृत्वमुताम् । एवं च निर्वचितुरेवान्तरालतेोपपत्तेरन्ये निर्वहिता ऽन्यचा न्तरालमित्यर्थभेदकल्पनापि न युक्ता । तथा च ते नाम रूपे यदाकाशमन्तरेत्ययमर्थान्तरव्यपदेश उपपन्नेो भवत्या काशस्य । तस्मादर्थान्तरव्यपदेशात्तथा । तद्रह्म तदस्मृतमिति व्यपदेशाद्रहवाकाशमिति सिद्भम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२८२&oldid=140954" इत्यस्माद् प्रतिप्राप्तम्