पृष्ठम्:भामती.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १ पा.३ख. ३३]
[भामती]
[२५८]

भावात् । न चैतत्सर्वं स्वार्थाविवक्षायां कल्पते । अत ए व यत्र प्रमाणान्तरविरुद्धार्था अर्थवादा दृश्यन्ते, यथादि ये वै यूपे यजमानः प्रस्तर इत्येवमादयः । तत्र यथा प्र माणन्तरविरोधेो यथा च स्तुत्यर्थता तदुभयसिद्यर्थ गुण वादखिति च तत्सिद्विरिति चासूचयज्जैमिनिः । तस्माद्यव सेोर्थेर्थवादानां प्रमाणान्तरविरुङ्कस्तत्र गुणवादेन आशाख्यल क्षणेति लशितलक्षणा। यत्र तु प्रमाणान्तरसंवादस्तच प्रमाणा न्तरादिवार्थवादादपि सेोर्थः प्रसिध्यति । इयेोः परस्परानपक्ष येः प्रत्यक्षानुमानयेरिवैकत्रार्थे प्रवृत्तेः । प्रमाचपेक्षया त्वनु वादकत्वं, प्रमाता ह्यव्युत्पन्नः प्रथमं यथा प्रत्यक्षादिभ्येो ऽर्थम वगच्छति न तथाम्नायतस्तत्र व्युत्पत्त्याद्यपेक्षत्वात् , न तु प्रमा णापेक्षया, द्वयेः खार्थेऽनपेक्षत्वादित्युक्तम् । नन्वेवं मानान्तर विरोधे ऽपि कस्माङ्गणवादे भवति यावता शब्दविरोधे माना न्तरमेव कस्मान्न बाध्यते । वेदान्तैरिवाद्वैतविषयैः प्रत्यक्षाद्य प्रपञ्चगेोचराः कस्माद्दार्थवाद्वद्वेदान्ता अपि गुणवादेन न नीयन्ते । अत्रेच्यते । खेोकानुसारते द्विविधे हि विषय शब्दानाम्, द्वारतव तात्पर्यंतव । यथैकस्मिन् वाक्ये पदा नां पदार्था हारते वाक्यार्थष तात्पर्यतेो विषयः । एवं वा क्यद्वयैकवाक्यतायामपि यथेयं देवदत्तीया गैः क्रेतव्येत्येक वाक्यमेषा बङ्गशीरेत्यपरं, तदस्य बङ्गक्षीरत्वप्रतिपादनं द्वा रम् । तात्पर्ये तु क्रेतव्येति वाक्यान्तरार्थे । तत्र यद्दारत स्तत्प्रमाणान्तरविरोधे ऽन्यथा नीयते । यथा विषं भक्षये ति वाक्यं मा ऽस्य गृहे भङ्क्ष्वेति वाक्यान्तरार्थपरं सत् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२६३&oldid=140914" इत्यस्माद् प्रतिप्राप्तम्