पृष्ठम्:भामती.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १ पा.३ख.३३]
[२५७]

मितये ऽवान्तरव्यापारः कल्पितः पदानाम् । न च यदर्थे यत् तत् तेन विना पर्यवस्यतीति न खार्थमाचाभिधानेन पर्यवसानं पदानाम् । न च नञ्वति वाक्ये विधानपर्यवसा नम् । तथा सति नञ्पदमनर्थक स्यात् । यथाजः ।

साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् ।
वणस्तथापि नैतस्मिन् पर्यवस्यन्ति निष्फले ॥
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके उवालेव काष्ठानां पदार्थप्रतिपादनम् ॥ इति ।

सेयमेकस्मिन्वाकये गतिः । यब त वाक्यस्यैकस्य वाक्या न्तरेण संबन्धस्तच खेलेकानसारते भूतार्थव्युत्पत्तौ च स्ि द्वायामेकैकस्य वाक्यस्य तत्तद्विशिष्टार्थप्रत्यायनेन पर्यव सितवृत्तिनः पश्चात्कुतविद्वेतेः प्रयेोजनान्तरापेक्षायामन्वयः कल्पते । यथा ‘वायुर्वे क्षेपिष्ठा देवता वायुमेव खेन भा गधेयेनेोपधावति स एवैनं भूतिं गमयति वायव्यं चेतमा लभेतेत्यत्र । इच् हि यदि न खाध्यायाध्ययनविधिः स्वा ध्यायशब्दवाच्यं वेदराशि पुरुषार्थतामनेष्यत्तते भूतार्थमा चपर्यवसितार्थवादा विध्युद्देशेन नैकवाक्यतामगमिष्यन् । त त्खाध्यायविधिवशात् कैमथ्र्याकाङ्गायां वृत्तान्तादिगेचराः सन्तस्तत्प्रत्यायनद्यारेण विधेयप्राशस्त्यं लक्षयन्ति, न पुन रविवशितस्वार्था एव तज्ञशणे प्रभवन्ति, तथा सति लक्ष्णैव न भवेत् । अभिधेयाविनाभावस्य तद्दोजस्याभावात् । श्रत एव गङ्गायां घेोष इत्यत्र गङ्गाशब्दः स्वार्थसंबद्धमेव तीरं लशयति न त समुद्रतीरं, तत्कस्य चेतेः, स्वार्थप्रत्यासत्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२६२&oldid=140913" इत्यस्माद् प्रतिप्राप्तम्