पृष्ठम्:भामती.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १पा. ३६. ३२]
[भामती]
[२५४]

स्येत्यादयः । तथेशानाम् । ‘इन्द्रे दिव इन्द्र ईशे पृथिव्या इन्द्रे श्रपामिन्द्र इत्पर्वतानाम् । इन्द्रे वृधाम् इन्द्र इन् धिराणामिन्द्रः क्षेमे येोगे चव्य इन्द्र’ इति । तथेशानमस्य जगतः स्वर्डशमीशानमिन्द्र तस्युष' इति । तथा वरिवस्-ि तारं प्रति देवतायाः प्रसादं प्रसन्नायाश्च फलदाभं दर्शयति ‘श्राञ्जतिभिरेव देवान् जतादः प्रीणाति तसै प्रीता इषमू जें च यच्छन्ती'ति । ‘टप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्प यतो?ति च । धर्मशास्त्रकारा श्रप्याज्ञः ।

ते दृप्तास्तर्पयन्येनं सर्वकामफलैः । इति।

पुराणवचांसि च भूयांसि देवताविग्रहादिपञ्चकप्रपञ्चमा चक्षते । लैौकिका अपि देवताविग्रपादिपञ्चकं स्मरन्ति चे पचरन्ति च । तथाहि । यमं । दण्डहस्तमालिखन्ति, वरुणं पाशचस्तम्, इन्द्रं वञ्चस्तम् । कथयन्ति च देवता वि भुङ्गइति । तथेशनामिमामाङ्गः । देवग्रामेो देवशेत्रमिति । तथास्याः प्रसादं च प्रसन्नायाश्च फलदानमाजः । प्रसन्ना स्य पश्पतिः पुत्रेास्य जातः । प्रसन्नेोस्य धनदेो धनमनेन लब्धमिति । तदेतत्पूर्वपक्षी दूषयति । “नेत्युच्यते । नहि तावज्ञेोकेो नामे'ति । न खलु प्रत्यक्षादिव्यतिरिक्तो लेोको नाम प्रमाणान्तरमस्ति, किं तु प्रत्यक्षादिममूला खेोकप्रसि द्धिः सत्यतामश्रुते, तदभावे त्वन्धपरम्यरावद् मूलाभावादि लवते । न चात्रवियचादैः प्रत्यक्षादीनामन्यतममस्ति प्रमा णम् । न चेतिचासादिमूलं भवितुमर्चति तस्यापि पैौरुषेय त्वेन प्रत्यक्षाद्यपेक्षणात् । प्रत्यक्षादीनां चात्राभावादित्याच ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२५९&oldid=140910" इत्यस्माद् प्रतिप्राप्तम्