पृष्ठम्:भामती.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[व.१ पा. ३९.२८]
[भामती]
[२४४]

एर्णानां तदपाकृतम् । व्यस्तसमस्तप्रकारद्वयासंभवेन तु यदा सञ्जितं तन्निराचिकीर्घराच । “वर्णेभ्यस्वार्थप्रतीतेरिति । करूयनाममृष्यमाण एकदेश्याच । “न करूपयामी”ति । नि राकरोति । “न, श्रस्या अपि बुद्धे'रिति । निरूपयतु ता वङ्गेरियेक पदमिति धियमायुष्मान् । किमियं पूर्वानुभूः तान् गकारादीनेव सामस्येनावगाहते, किं वा गकाराद्य तिरिक्त गवयमिव वराचादिभ्ये विलक्षणम् । यदि गका रादिविलक्षणमवभासयेत्, गकारादिरूषितः (१) प्रत्यये न स्यात् । नचि वराहधीर्महिषरूषितं वराहमवगाचते। पद् तत्त्वमेकं प्रत्येकमभिव्यञ्जयन्ते ध्वनयः प्रयत्रभेदभिन्नास्तु ख्यस्थानकरणनिष्याद्यतया ऽन्येान्यविसदृशतत्तत्पदव्यञ्जकध्व निसादृश्येन खव्यञ्जनीयस्यैकस्य पदतत्त्वस्य मिथे विसट्ट भागमपि नानेव भागवदिव भास्यन्ति मुखमिवैकं नियत वर्णपरिमाणस्थानसंस्थानभेदमपि मणिकृपाणदर्पणादये ऽने कमनेकवर्णपरिमाणस्थानसंस्थानभेदम् । एवं च कल्पिता ए वास्य भागा वर्णा इति चेत्, तत्किमिदानीं वर्णभेदानसत्य पि बाधके मिथ्येति वक्तुमध्यवसितेोसि । एकधीरेव ना नात्वस्य बाधिकेति चेत्, हन्तास्यां नाना वर्णाः प्रथन्तइति नानात्वावभास एवैकत्वं कस्मान्न बाधते । अथ वा वनसे. नादिबुद्विवदेकत्वनानात्वे न विरुद्वे । ने खलु सेनावनबुद्वि गजपदातितुरगादीनां चम्यकाशाककिंशशुकादीनां च भेट्


(१) भूषितः पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२४९&oldid=140882" इत्यस्माद् प्रतिप्राप्तम्