पृष्ठम्:भामती.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १ पा. ३रु. २०]
[२२५]

रामृष्टस्तङ्गावप्रविलयन तस्य पारमार्थिक ब्रह्मभावं दर्श यितुमित्यर्थ ॥

अरुपश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥

निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥

अनुकृतेस्तस्य च ॥ २२ ॥

अभानं तेजसा दृष्टं सति तजान्तरे यत तेजो धात्वन्तरं तस्मादनुकाराच गम्यते ॥ बलीयसा हि सायण तेजसा मन्दं तेजश्चन्द्रतारकाद्यभि भूयमानं दृष्टं, न त तेजसा ऽन्येन । येपि पिधायका प्रदीपस्य गृहघटादयेो (१) न ते खभासा प्रदीपं भासयि तुमीशते । श्रूयते च ‘तस्य भासा सर्वमिदं विभाती’ति । सर्वशब्दः प्रकृतसूर्याद्यपेशः । न चातुल्यरुपे ऽनभानमित्य नुकारः (२) संभवति । नहि गावेो वराइमनुधावन्तीति छ पणविचङ्गानुधावनमुपपद्यते गवाम्, श्रपि तु तादृशङ्खकरा नुधावनम् । तस्माद्यद्यपि ‘यमिन्द्यौः पृथिवी चान्तरितमेो तमिति ब्रह्म प्रकृतं, तथाप्यभिभवानुकारसामथ्र्यलक्षणेन लिङ्गेन प्रकरणबाधया तेजेो धातुरवगम्यते, (३) न त ब्रह्म लिङ्गानुपपत्ते । तत्र तं तस्येति च सर्वनामपदानि प्रद र्शनीयमेवावमुच्यन्ति । न च तच्छब्दः पूर्वोक्तपरामशीति नियमः समस्ति । नहि तेन रक्त रागात्’ ‘तस्यापत्यम्


(१) गृहकुठ्याद्यो-पा० २ ॥

(२) ऽनुभानमनुकार - पा० १ । २ । ३ ।।

(3) तेजोऽन्तरं गम्यते—पा० १ | तेजोधात्वन्तरमवगम्यते–पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२३०&oldid=140128" इत्यस्माद् प्रतिप्राप्तम्