पृष्ठम्:भामती.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[आ.१पा ३ ख.१]
[१९५]

नाममृतत्वपदप्राप्तिसाधनत्वं वात्मज्ञानस्य पारवत एव स्ल शयिष्यति । अमृतशब्दश्च भावप्रधानः । यथा ‘इकयेद्वि वचनैकवचने' इत्यत्र द्वित्वैकत्वे इोकशब्दार्थे, अन्यथा - केष्विति स्यात् । तदिदमुक्त भाष्यकृता “अमृतत्वसाधनत्वा”- दिति । तथा चाम्ऋतस्येति च सेतुरिति च ब्रह्मणि द्यु भवाद्यायतनउपपत्येते । अत्र च खशब्दादिति तन्त्रेञ्च रितमात्मशब्दादिति च सदायतना इति सच्छब्दादिति च ब्रह्मशब्दादिति च खूचयति । सर्वे होतेस्य खशब्दाः । स्या देतत् । श्रायतनायतनवङ्गावः सर्वे ब्रहोति च सामानाधि करण्यं हिरण्यगर्भ ऽप्यपपद्यते । तथा च स एवात्रास्ख मृतत्वस्य सेतुरित्याशङ्कव श्रुतिवाक्येन सावधारणेनेोत्तरमा च । “तत्रायतनायतनवङ्गावश्रवणा"दिति । विकाररूपे ऽनते ऽनिर्वाच्ये ऽभिसन्धे ऽभिसन्धानं यस्य स तथेयातः । भेद पञ्चं सत्यमभिमन्यमान इति यावत् । तस्यापवादे देशषः श्रूयते । “मृत्ये'रिति । “सर्वे ब्रह्नोति वि'ति । यत्सर्व मविद्यारोपितं तत्सर्वे परमार्थतो ब्रह्म । न तु यद्रह्म तत्स र्वमित्यर्थः । “अपर श्राचे'ति । नात्र द्यभ्वाद्यायतनस्य से तुता (१) येन पारवत्ता स्यात्, किं तु जानथेति यज् ज्ञानं कीर्तितं, यद्य वाचेो विमुच्चयेति वाग्विमेोकः, तस्याम्टतत्व साधनत्वेन सेतुतेोच्यते । तचेवाभयमपि पारवदेव । न च प्राधान्यादेष इति सर्वनाम्ना द्यभ्वाद्यायतनमात्मैव परा दृश्यते, न तु तज्ज्ञानवाग्विमेाचने इति साम्प्रतम् । वादि


(१) सेतुतोच्यते- - पा० १ | २ | ३ |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२०२&oldid=138845" इत्यस्माद् प्रतिप्राप्तम्