पृष्ठम्:भामती.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.१.पा.१.ख.१८]
[भामती]
[१८२]

साधारण्यानुमानाभासेनागमविरोधिना शक्यमपन्चेोतुम् । तथा च सर्व विकारजातं तदविद्याशक्तिपरिणामस्तस्य शः रीरेन्द्रियस्याने वर्ततइति यथायथं पृथिव्यादिदेवतादिकार्य करणैस्तानेव पृथिव्यादिदेवतादीन् शोति नियन्तुम् । न चानवस्था । नहि नियन्त्रन्तरं तेन नियम्यते, किं तु ये। जीवेो नियन्ता खेोकसिद्भः स परमात्मैवेोपाध्यवच्छेदक खिपतभेदस्तथा व्याख्यायतइत्यसष्टदावेदितं, तत्कुतेो निय न्न्नन्तरं, कुतश्चानवस्था । तथा च नान्येतेति द्रष्टेत्याद्या अपि श्रुतय उपपन्नार्थाः । परमार्थते ऽन्तर्यामिणे ऽन्यस्य जीवात्मना द्रष्टरभावात् । अविद्याकल्पितजीवपरमात्मभे दाश्रयातु ज्ञातृज्ञेयभेदश्रुतयः प्रत्यक्षादीनि प्रमाणानि स् सारानुभवेो विधिनिषेधशाखाणि च । एवं चाधिदैवादिष्वे कचैवान्तर्यामिणः प्रत्यभिज्ञानं समञ्जसं भवति, यः सर्वा न् खेोकान् यः सर्वाणि भूतानीत्यत्र य इत्येकवचनमुपपद्यते । तिष्ठवित्यादै चाभेदेपि भेदेपचारक्षेो न भविष्यति । त मात्परमात्मान्तर्यामी न जीवादिरिति सिद्धम् । पृथिव्या द्विस्तनयित्न्वन्तमधिदैवम् । यः सर्वेष खेाकेष्वित्यधिखेोकम् । यः सर्वेषु वेदष्वित्यधिवेदम् । यः सर्वेषु यशेष्वित्यधियश म् । यः सर्वेषु भतेष्वित्यधिश्वतम् । प्राणाद्यात्मान्तमध्या त्मम् । संशाया अप्रसिद्दत्वादित्युपक्रममाचं पूर्वः पक्षः ॥

“दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरेधात्” । कर्तरि श्रात्मनि प्रवृत्तिविरेधादित्यर्थः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१८९&oldid=138832" इत्यस्माद् प्रतिप्राप्तम्