पृष्ठम्:भामती.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१पा.१ख.४]
[भामती]
[११०]

स्ति घटेो न तु विषयतया, (१) विषयतया तु हस्तादि व्यापार एव । अत एवाग्रेय इत्यचापि द्रव्यदेवतासंबन्धाशि झेो यजिरेव कार्यविषयेो विधेयः । किमुक्तं भवति श्रामे येो भवतीति, श्राग्येन यागेन भावयेदिति । अत एव ‘य एवं विद्वान् पैौर्णमासीं यजते’ ‘य एवं विद्वानमावास्यां य जते’ इत्यनुवादेो भवति यदाग्रेय इत्यादिविचितस्य याग षट्कस्य । अत एव च विचितानुदितस्य तस्यैव दर्शपूर्ण मासाभ्यां खर्गकामे यजेतेत्यधिकारसंबन्धः । तस्मात् सर्वत्र छतिप्रणालिकया भावार्थविषय एव विधिरित्येकान्तः । तथा च न हन्यान्न पिबेदित्यादिषु यदि कार्यमभ्युपेयेत ततस्त इद्यापिका छतिरभ्युपेतव्या । तद्यापकश्च भावार्थे विषयः। एवं च प्रजापतिव्रतन्यायेन पर्युदासवृत्त्या ऽहननापासनसङ्कल्पल क्षणया तद्विषये विधिः स्यात् । तथा च प्रसज्यप्रतिषेधे । दक्तजलाञ्जलिः प्रसज्येत । न च सति संभवे लक्षणा न्या या । नेक्षेतेोद्यन्तमित्यादै तु तस्य व्रतमित्यधिकारात् प्र- । सज्यप्रतिषेधासंभवेन पर्युदासवृत्त्या ऽनीक्षणसङ्कलपलक्षणा गु ता. । तस्माद् न हन्याद् न पिबेदित्यादिषु प्रसज्यप्रतिषे धेषु भावार्थाभावादु तह्याप्तायाः कृतेरभावस्तदभावे इह्याप्तस्य कार्यस्याभाव इति न कार्यपरत्वनियमः सर्वच वा-- कचे इत्याच । “ब्राह्मणे न हन्तव्य इत्येवमाद्येति । ननु कस्माद् निवृत्तिरेव कायै न भवति, तत्साधनं वेत्यत चा । “न च सा क्रियेति । क्रियाशब्दः कार्यवचनः। -


(१) नतु विधेयः,-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/११७&oldid=134962" इत्यस्माद् प्रतिप्राप्तम्