पृष्ठम्:भामती.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा. १ख.२]
[५१]

द्रियाविषयत्व'इति । कस्मात्पुननेंद्रियविषयत्वं प्रतीच इत्यत श्राच्छ् । “खभावत” इति । अत एव श्रतिः । ‘पराञ्चि खानि व्यटणन् स्वयं- " स्तस्मात्पराङ् पश्यति नान्तरात्मविति । “सति चीन्द्रियेति (१) । प्रत्यगात्मनस्त्वविषयत्वमुपपादि तम् । यथा च सामान्यतेो दृष्टमप्यनुमानं ब्रह्मणि न प्रवर्त्तते तथेोपरिष्टान्निपुणतरमुपपादयिष्यामः । उपपादितं चैतदस्मा भिर्विस्तरेण न्यायकणिकायाम् । न च भूतार्थतामात्रेणानु वादतेत्युपरिष्टादुपपादयिष्यामः । तस्मात्सर्वमवदातम् । श्रुति श्व ‘यते वेति जन्म दर्शयति, येन जातानि जीवन्तीति जीवनं स्थिति, यत्प्रयन्तीति तत्रैव लयम् । “तस्य च नि र्णयवाक्यम्’ (२) । अत्र च प्रधानादिसंशये निर्णयवाक्य ‘मानन्दाद्येवेति । एतदुक्तं भवति । यथा रज्ज्वधानसहि तरज्जूपादाना धारा (३) रज्ज्वां सत्यामति रज्ज्वामेव च लीयते, एवमविद्यासहितब्रह्मोपादानं जगद् ब्रह्मण्येवास्ति तत्रैव च लीयतति सिद्भम् ॥ स्त्रान्तरमवतारयितुं पूर्वसूत्रसंगतिमाच । “जगत्कारण त्वप्रदर्शनेने"ति ।


(१) सति हीन्द्रियेति प्रतीकं १ ॥ २ नास्ति ।

(२) तस्य च निर्णयवाक्यमिति प्रतीकं १ । २ नास्ति ।

(3) रज्जूपादाना सर्पधारा-पा० १ । रज्जूपादाना हि सर्पधारा-पा० 3 । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७८&oldid=134772" इत्यस्माद् प्रतिप्राप्तम्