पृष्ठम्:भामती.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १पा.१ रू.१]
[भामती]
[]

जमुक्त, ततश्च संशयाञ्जिष्शासेोपपद्यतइति भावः । विवाद धिकरणं धमों सर्वतन्त्रसिद्दान्तसिद्धे (१) ऽभ्युपेय । अ न्यथा ऽनाश्रया भिन्नाश्रया वा विप्रतिपत्तये न स्यः । विरुद्धा हि प्रतिपत्तये विप्रतिपत्तयः । न चानाश्रयाः प्रतिपत्तये (२) भवन्ति, अनालम्बनत्वापत्तेः। न च भिन्नाश्रया विरुद्धाः । नहनित्या बुद्भिर्नित्य श्रात्मेति प्रतिपत्तिवि प्रतिपत्ती । तस्मात्तत्पदार्थस्य शुद्धत्वादेर्वदान्तेभ्यः प्रती तिखंपदार्थस्य च जीवात्मनेो लाकतः सिद्धिः सर्वत न्वसिद्धान्तः । तदाभासत्वानाभासत्वेन तद्विशेषेषु परमत्र विप्रतिपत्तयः । तस्मात्सामान्यतः प्रसिद्धे धर्मिणि विशेषता विप्रतिपत्तौ शुक्तस्तद्विशेषेषु संशयः । तत्र त्वंपदार्थे तावद्दि प्रतिपत्तीर्दर्शयति । “देहमाच'मित्यादिना, “भेत्तेव केवलं न कर्तेत्यन्तेन । श्रव देचेन्द्रियमनःक्षणिकविज्ञानचैत न्यपक्षे न तत्पदार्थनित्यत्वादयस्त्वंपदार्थन संबन्ध्यन्ते । येोग्यताविरहात् । पून्यपक्षेपि सर्वपाख्यारहितमप दार्थः कथं तत्त्वमार्गोचरः । कार्टभातखभावस्यापि परि णामितया तत्पदार्थनित्यत्वाद्यसङ्गतिरेव । श्रकर्तृत्वेपि भेो कृत्वपक्षे परिणामितया नित्यत्वाद्यसङ्गतिः । अभेतृत्वेपि नानात्वेनावच्छिन्नत्वाद् अनित्यत्वादिप्रसक्तावदैतचानाञ्च तत्पदार्थासङ्गतिस्तद्वस्थैव । न्वंपदार्थविप्रतिपत्त्या च त त्पदार्थपि विप्रतिपतिर्दर्शिता । वेदाप्रामाण्यवादिने ि लैौकायतिकादयस्तत्पदार्थप्रत्ययं मिथ्येति मन्यन्ते । वेदप्रा माण्यवादिनेोयैौपचारिक तत्पदार्थमविवदितं वा मन्यन्त


(१) सर्वतन्त्रासद्धान्तो-पा० २ ॥

(२) विप्रतिपत्तयो-पा० ५ । परन्त्वसमळजसः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६९&oldid=134718" इत्यस्माद् प्रतिप्राप्तम्