पृष्ठम्:भामती.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४२ ]

न्यथा कुटजबीजादपि वटाडुरोत्पत्तिप्रसङ्गात् । तस्मानि
र्विचिकित्सवाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वंपदा
तदुपाध्याकारनिषेधेन तत्पदार्थतामनुभा
वयतीति युक्तम् । न चायमनुभवेो ब्रह्मखभावेो येन न ज
येत, अपि त्वन्तःकरणस्येव वृत्तिभेदो ब्रह्मविषयः न चैताव
ता ब्रह्मणो नापराधीन(१)प्रकाश ना । नहि शाब्दज्ञानप्रक्राश्यं
ब्रह्म खयं प्रकाशं न भवति । सर्वपाधिरचितं छि खयं
अयेोतिरिति गीयते, न वपतिमपि । यथा रुप्त भगवान्
भाष्यकारः । ‘नायमेकान्तेनाविषय' इति । न चान्तःकरण
वृत्तावण्यस्य साक्षात्कारे सर्वपाधिविनिमेकः । तस्यैव त
दपाधेर्विनश्यदवस्थस्य खपरोपाधिविरोधिने विद्यमानत्वात् ।
अन्यथा चैतन्यच्छायापतिं विना ऽन्तःकरणवृत्तेः खयमचेत
नायाः खप्रकाशत्वानुपपरता साचात्कारत्वायागात् । न चा
नमितभावितवन्ट्सिाक्षात्कारवत्प्रतिभात्वेनास्याप्रामाण्यं, तत्र
वह्खित्लणस्य परोक्षत्वात् । इच् तु ब्रह्मरूपस्येापाधिक
लुषितस्य जीवस्य प्रागप्यपरोक्षत्वात् । नहि शुद्धबुद्धत्वादये।
वस्तुतस्ततो ऽतिरिच्यन्ते । जीव एव तु तत्तदुपाधिरचितः शूशुद्ध
बुदिखभावेो बझेति गीयते । न च तत्तदुपधिविरचेो ऽपि
तते ऽतिरिच्यते । तस्माद्यथा गान्धर्वशाखार्थज्ञानाभ्यासाचि
तसंस्कारसचिवश्रेोत्रेन्द्रियेण षड्जादिखरग्राममूच्ईनाभेदम
ध्यक्षमनुभवति, एवं वेदान्तार्थज्ञानाभ्यास्रातिसंस्कारे जी
लात्कारे जनयितव्ये ऽस्ति तदुपासनायाः कर्मापेक्षेति चेत् ।
न । तस्याः कर्मानुष्ठानेन सहभावाभावेन तत्सहकारित्वानु



(१) ब्रह्मणः पराधीन-पा०३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४९&oldid=133991" इत्यस्माद् प्रतिप्राप्तम्