पृष्ठम्:भामती.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ २४ ] प्रत्यक्षेऽपि ह्याकाशे बालातलमलिनतायध्यस्यन्ति"। दिर्यस्मादर्थे । नभो हि द्रव्यं सद् रूपस्पर्शविरहान्न बाह्येन्द्रियप्रत्यक्षम् । नापि मानसं, मनसो ऽसहायस्य बाह्ये ऽप्रवृत्तेः। तस्मादप्रत्यक्षम् । अथ च तत्र बाला अविवेकिनः परदर्शितदर्शिनः कदा चित्पार्थिवच्छायां श्यामतामारोप्य, कदा चित्तैजसं शुक्लत्वमारोप्य नीलोत्पलपलाशयाममिति वा राजहंसमालाधवलमिति वा निर्णयन्ति तत्रापि पूर्वदृष्टस्य तैजसस्य वा तामसस्य वा रूपस्य परत्र नभसि स्मृतिरूपो ऽवभास इति। एवं तदेव तलमध्यस्यन्ति अवाङ्मुखीभूतं महेन्द्रनीलमणिमयमहाकटाहकल्पमित्यर्थः । उपसंहरति । "एवम्” उक्तेन प्रकारेण सर्वाक्षेपपरिहारात् "अविरुद्धः प्रत्यगात्मन्यप्यनात्मनां" बुद्यादीनाम् “अध्यासः" । ननु सन्ति च सहस्रमध्यासास्तकिमर्थमयमेवाध्यास आक्षेपसमाधानाभ्यां व्युत्पादितः, नाध्यासमात्रमित्यत आह । “तमेत मेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते"। अविद्या हि सर्वानर्थबीजमिति श्रुतिस्मृतिइतिहासपुराणादिषु प्रसिद्धम्, तदुच्छदाय वेढान्ताः प्रवृत्ता इति वक्ष्यति । प्रत्यगात्मन्यनात्माध्यास एव सर्वानर्थहेतुर्न पुना रजतादिविभ्रमा इति स एवाविद्या तत्स्वरूपं चाविक्ज्ञातं न ह्यशक्यमुच्छेतुमिति तदेव व्युत्पाद्यं नाध्यासमात्रम् । अत्र च एवंलक्षणमित्येवंरूपतया ऽनर्थहेतुतोक्ता । यस्मात्प्रत्यगात्मन्यशनायादिरहिते ऽअनायाद्युपेतान्तःकरणाद्यचितारोपेण प्रत्यगात्मानमदुःखं दुःखाकरोति, तस्मादनर्थहेतुः । न चैवं पृथम्जना अपि मन्यन्ते ऽध्यास, येन न व्युत्पाद्येतेत्यत उक्तं पण्डिता मन्यन्ते । नन्चियमनादिरतिनिरूढनिविडवासनानुबद्धाऽविद्या न शक्या निरोद्धुमुपायाभावादिति यो मन्यते तं प्रति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३१&oldid=334430" इत्यस्माद् प्रतिप्राप्तम्