पृष्ठम्:भामती.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ १७ ] व्यवहारहेतुरिति वक्तव्यम् । तत्र किमयमारोपोत्पादक्रमेण व्यवहारहेतुराशो अनुत्पादितारोप एव स्वत इति। वयं तु पश्यामः। चेतनव्यवहारस्याज्ञानपूर्वकत्वानुपपत्तरेारोपज्ञानोत्पादक्रमेणैवेति। ननु सत्यं चेतनव्यवहारो नाज्ञानपूर्वकः किं त्वविदितविवेकग्रहणस्मरणापूर्वक इति । मैवम् । नहि रजतप्रातिपदिकार्थमावस्मरणं प्रवृत्तावुपयुज्यते। इदंकारास्पदाभिमुखी खलु रजतार्थिनां प्रवृत्तिरित्यविवादम् । कथं चायमिदंकारास्पदे प्रवर्तेत, यदि तुन तदिच्छेत् । अन्यदिच्छत्यन्यत्करोतीति व्याह्रतम् । न चेदिदंकारास्पदं रजतमिति जानीयात्कथं रजतार्थों तदिच्छेत् । यद्यतथात्वेनाग्रहणादिति ब्रूयात्स च प्रतिवक्तव्योऽथ तथात्वेनाग्रहणात्कस्मात्रोपेक्षेतेति।सोऽयमुपादानोपेक्षाभ्यामभिमत आकृष्यमाणरचेतनो ऽव्यवस्थित इदंकारास्पदे रजतसमारोपेणोपादान एव व्यवस्थाप्यत इति भेदाग्रहः समारोपोत्पादक्रमेण चेतनप्रवृत्तिहेतुः । तथाहि । भेदाग्रहादिदंकारास्पदे रजतत्वं समारोप्य तज्जातीयस्योपकारहेतुभावमनुचित्य तज्जातीयतयेदंकारास्पदे रजते तमनुमाय तदर्थो प्रवर्तते इत्यानुपूर्व्यं सिद्धम् । न च तटस्थरजतस्मृतिरिदंकारास्पदस्योपकारतभावमनुमापयितुमर्हति । रजतत्वस्य हेतोरपक्षधर्मत्वात् । एकदेशदर्शनं खल्वनुमापकं न त्वनेकदेशदर्शनम् । यथाः । ज्ञातसंबन्धस्यैकदेशदर्शनादिति । स-. मारोपे स्वेकदेशदर्शनमस्ति । तत्सिद्धमेतदिवादाध्यासितं रजतादित्ज्ञानं पुरोवर्तिवस्तुविषयं रजताद्यर्थिनस्तच नियमेन प्रवर्तकत्वात् । यद्यदर्थिनं यच नियमेन प्रवर्तयति तज्ज्ञानं तद्विषयं, यथोभयसिंहसमीचीनरजतज्ञानं, तथा चेदं, तस्मात्तथेति । यच्चोक्तमनवभासमानतया न नशुक्तिरालम्बनमिति तच भवा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२४&oldid=334410" इत्यस्माद् प्रतिप्राप्तम्