पृष्ठम्:भामती.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ १४ ] बाधं हि रजत च तस्य च धर्म इदन्ता बाधिते भवेताम्, तद्दरमिदन्तै वास्य धर्मो बाध्यतां न पुना रजतमपि धर्मि, तथा च रजतं बहिर्बाधितमर्यादान्तरे ज्ञाने व्यवतिष्ठतइति ज्ञानाकारस्य बहिरध्यासः सिध्यति । के चित्तु ज्ञानाकारख्यातावपरितुष्यन्तो वदन्ति । यत्र यदध्यासस्तदिवेकायग्रहनिबन्धनो भ्रम इति। अपरितोषकारणं चाहुः । विज्ञानाकारता रजतादेरनुभवाद्वा व्यवस्थाप्येतानुमानाद्वा । तत्रानुमानमुपरिष्टान्निराकरिष्यते । अनुभवो ऽपि रजतप्रत्ययो वा स्याद् बाधकप्रत्ययो वा। न तावद्रजतानुभवः। स हीदंकारास्पदं रजतमावेदयति न त्वान्तर, महमिति हि तदा स्यात् प्रतिपत्तुः प्रत्ययादव्यतिरेकात्। भ्रान्तं विज्ञानं स्वाकारमेव बाह्यतया ऽध्यवस्यति । तथा च नाहंकारास्पदमस्य गोचरो ज्ञानाकारता पुनरस्य बाधकप्रत्ययप्रवेदनोयेति चेत्, हन्त बाधकप्रत्ययमालोचयत्वायुमान्। किं पुरोवर्ति द्रव्यं रजतादिवेचयत्याहो ज्ञानाकारतामप्यस्य दर्शयति । तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रूवाणः श्लाघनीयप्रज्ञो देवानांप्रियः। पुरोवर्तित्वप्रतिषेधादर्थादस्य ज्ञानाकारतेति चेत्, न। असन्निधानाग्रहनिषेधाद् असन्निहितो भवति प्रतिपत्तुरत्यन्तसन्निधानं त्वस्य प्रतिपत्रात्मकं कुतस्त्यं, न चैष रजतस्य निषेधो न चेदन्तायाः, किंतु।विवेकाग्रहप्रसञ्जितस्य रजतव्यवहारस्य । न च रजतमेव शुक्तिकायां प्रसञ्जितं रजतज्ञानेन, नहि रजतनिर्भासस्य शुक्तिकालम्बनं युक्तमनुभवविरोधात् । न खलु सत्तामात्रेणालम्बनम्, अतिप्रसङ्गात्। सर्वेषामर्थानां सत्त्वाविशेषादालम्बनत्वप्रसङ्गात्। नापि कारणत्वेन, इन्द्रियादीनामपि कारणत्वात्। तथा च भासमानतैवालम्बनार्थः । न च रजतज्ञाने शुक्तिका भासतइति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२१&oldid=334380" इत्यस्माद् प्रतिप्राप्तम्