पृष्ठम्:भामती.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ ७ ] हि व्यवहारसमये न लोकसामान्यमतिवर्तन्ते । वक्ष्यत्यनन्तरमेव हि भगवान् भाष्यकारः । “पश्वादिभिश्चाविशेषादिति” । बाह्या अप्याहुः “शाखचिन्तकाः खल्वेवं विवेचयन्ति न प्रतिपत्तार" इति । तत्पारिशेष्याच्चिदात्मगोचरमहंकारमहमिहास्मि सदनइति प्रयुञ्जानो लौकिका शरोराद्यभेदग्रहादात्मनः प्रादेशिकत्वमभिमन्यते नभस इव घटमणिकमल्लिकाद्यपाध्यवछेदादिति युक्तमुत्यश्यामः । न चाहंकारप्रामाण्याय देहादिवदात्मापि प्रादेशिक इति युक्तम् । तदा खल्वयमणुपरिमाणो वा स्याद्देहपरिमाणो वा। अणुपरिमाणत्वे स्थूलो ऽहं दीर्घ इति च न स्यात् । देहपरिमाणत्वे तु सावयवतया देहवदनित्यत्वप्रसङ्गः । किं चास्मिन् पक्षे ऽवयवसमुदायो वा चेतयेत्प्रत्येकं वा ऽवयवाः । प्रत्येकं चेतनत्वपक्षे बहूनां चेतनानां स्वतन्त्राणामेकवाक्यताभावादपर्यायं विरुद्धदिक्कियतया शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येत । समुदायस्य तु चैतन्ययोगे वृकणएकस्मिन्नवयवे चिदात्मनो ऽप्यवयवो वृकण इति न चेतयेत् । न च बहूनामवयवानामविनाभावनियमो दृष्टो य एवावयवो विशीर्णस्तदा तदभावे न चेतयेत् । विज्ञानालम्बनत्वेष्यहंप्रत्ययस्य भ्रान्तत्वं तदवस्थमेव । तस्य स्थिरवस्तुनिर्भासत्वादस्थिरत्वाच्च विज्ञानानाम् । एतेन स्थूलो ऽहमन्धोइं गच्छामीत्यादयोप्यध्यासतया व्याख्याताः । तदेवमुक्तक्रमेणाहंप्रत्यये पूतिकूष्मााण्डीकृते भगवती श्रुतिरप्रत्यूहं कर्तृत्वभोक्तृत्वसुखदुःखशोकाद्यात्मत्वमहमनुभवप्रसञ्जितमात्मनो निषेधुमर्हतीति । तदेवं सर्वप्रवादिश्रुतिस्मृतीतिहासपुराणप्रथितमिथ्याभावस्याहंप्रत्ययस्य स्वरूपनिमित्तफलैरुपव्याख्यानमन्योन्यस्मिन्नित्यादि । अत्र चान्योन्यस्मिन् धर्मिणि आत्मशरीरादावन्योन्यात्मकतामध्यस्याह

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४&oldid=334348" इत्यस्माद् प्रतिप्राप्तम्