पृष्ठम्:भामती.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ २ ]

भाष्यं प्रसन्नगम्भीरं तत्प्रणीतं विभज्यते ॥ ६ ॥
आचार्यकृतिनिवेशनमप्यवधूतं वचोस्मदादीनाम्।
रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति ॥ ७ ॥
अथ यदसंदिग्धमप्रयोजनं च न तत्प्रेक्षावत्प्रतिपित्सागोचरो,
यथा स्मनस्केन्द्रियसन्निकृष्टः स्फीतालेाकमध्यवतर्ती घटः करट
दन्ता वा, तथा चेदं ब्रह्नोति व्यापकविरुद्धोपलब्धिः । तथाहि,
“बृहत्त्वाद्बृंहणत्वादात्मैव ब्रह्मेति गीयते’, स चायमाकीटप
तङ्गेभ्य श्रा च देवर्षिभ्यः प्राणभून्मात्रस्येदंकारारदेभ्ये देहे
न्द्रियमनोबुििद्धिविषयेभ्यो विवेकेनाहमित्यसंदिग्धाविपर्यस्ताप
रोक्षानुभवसिद्ध इति न जिज्ञासास्पदं, नहि जातु कश्चिदत्र
संदिग्धे ऽहं वा नाहं वेति, न च विपर्यस्यति नाहमेवेति । न
चाहं कृशः स्थूलो गच्छामोत्यादिदेहधर्मसामानाधिकरण्यद
र्शनात् देहालम्बनो ऽयमहंकार इति सांप्रतम् । तदालम्बनत्वे
हि योऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे प्राप्तननुभवा
मीति प्रतिसंधानं न भवेत् । नहि बालस्थविरयोः शरीरयोर
स्ति मनागपि प्रत्यभिज्ञानगन्धो येनैकत्वमध्यवसीयेत । तस्मा
द्येषु व्यावर्तमानेषु यदनुवर्तते तत्तेभ्ये भिन्नं, यथा कुसुमेभ्य
स्रूत्रम् । तथा च बालादिशरीरेषु व्यावर्तमानेष्वपि परपरमदं
कारास्पदमनुवर्तमानं तेभ्यो भिद्यते । अपि च स्वप्नान्ते दिव्यं
शरीरभेदमास्थाय तदुचितान् भाोान् भुञ्जान एव प्रतिबुद्धो
मनुष्यशरीरमात्मानं पश्यन्नाहं देवे मनुष्य एवेति देवशरीरे
बाध्यमानेष्यहमास्पदमबाध्यमानं शरीराद्भिन्नं प्रतिपद्यते । श्रपि
च योगव्याघ्रः शरोरभेदेपि आत्मानमभिन्नमनुभवतीति नात्
कारालम्बनं देहः । अत एव नेन्द्रियाण्यप्यस्यालम्बनम्, इन्द्रिय
भेदेपि ये ऽहमद्राक्षं स एवैतर्हि स्पृशामीयहमालम्बनस्य प्रत्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/९&oldid=333982" इत्यस्माद् प्रतिप्राप्तम्