पृष्ठम्:भामती.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ भामती ॥

शाङ्करब्रह्मसूत्रभाष्यव्याख्या

सर्वतन्त्रस्वतन्त्रश्रीमहामहेोपाध्यायवाचस्पतमिश्रविरचिता ।

॥ श्रीगणेशाय नम: ॥

अनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतो
विवर्त्ता यस्यैते वियदनिलतेजोऽबवनयः ।
यतश्चाभूद्विश्वं चरमचरमुच्चावचमिदं
नमामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम् ॥ १ ॥
निश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि ।
स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः ॥ २॥
षडभिरङ्गै(१)रुपेताय विविधैरव्ययै(२)रपि।
शाश्वताय नमस्कुर्मो वेदाय च भवाय च ।3।
मार्तण्ड़तिलकस्वामिमहागणपतीन् वयम् ।
विश्ववन्द्यान् नमस्यामः सर्वसिद्धिविधायिनः (३) ॥ ४ ॥
ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्त्यवताराय नमो भगवतो हरेः ।5।
नत्वा विशुद्धविज्ञानं शंकरं करुणाकरम् ।


(१) “सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ” । इति पुराणम् ।। (२) * ज्ञानं विरागतैश्वर्य तपः सत्यं क्षमा धृति । स्रष्टत्वमात्मसंबोधो ह्यधिष्ठातृ त्वमेव च । अव्ययानि दशैतानि नित्यं तिटन्ति शङ्करे' । इति वायुपुराणम् ।। (3) “ आदित्यस्य सदा पूजां तिलकस्वामिनस्तथा । महागणपतेचैव कुवैन सि द्विमवामुयान' । इति स्मृतिः ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/८&oldid=333981" इत्यस्माद् प्रतिप्राप्तम्