पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽङ्कः । महासारप्रसवयोः सदृशक्षमयौयोः । धारिणीभूतधारिण्यो भूत शरच्छतम् ॥ १५ ॥ धारिणी-जे अज्जउत्तो । राजा—खागतं देव्यै । (परिव्राजिकां विलोक्य ) भगवति, क्रि (सर्वे उपविशन्ति ।) राजा---भगवति, अत्रभवतोर्हरदत्तगणदासयोः परस्परं विज्ञान संघाषेणोर्भगवत्या प्राक्षिकपद्मध्यासितव्यम् । परित्राजिका–(सस्मितम् ।) अलमुपालम्भेन । पत्तने सति ग्रामे रखपरीक्षा । राजा-नैतदेवम् । पण्डितकौशिकी खलु भगवती । पक्षपाति जावहं देवी च । आचाय–सभ्यगाह देवः। मध्यस्था भगवती नौ गुणदोषतः परिच्छेत्तुमर्हति । राजा---तेन हेि प्रस्तूयतां विवादः । रेिब्राजेिका-देव, प्रयोगप्रधानं हेि नाट्यशास्त्रम् । किमत्र वाग्व्यवहारेण । कथं वा देवी मन्यते । देवी-जैइ में पुच्छसि, एदाणं विवादो एव ण मे रोआदि । गणदासः-देव, न मां समानविद्यया परिभवनीयमवगन्तुमर्हसि। विदूषकः-भोदि, पेक्खामो उरब्भसंवादं । किं मुहा वेअ १. जयत्वा पुत्रः । २. यदि मां पृच्छसेि, एतेषां वेिवाद एव न मे रोचते । ३. भवति, पश्याम् उरभ्रसंवादम् । किं मुधा वेतनदानेन । नीयम् ॥ महासरेत्यादि । महासरप्रसयोः । महान्सारो वरः प्रसवः सैतानं योस्ते तयोः । सदृशक्षमयोः । सदृशी समाना क्षमा सहिष्णुत्वं यथोखेत तयोः । शेषं स्पष्टम् ॥ जयत्वार्यपुत्रः ॥ यदि मां पृच्छ,िएतयोर्विवाद एव न मेरोचते ॥ भवति,