पृष्ठम्:तन्त्रवार्तिकम्.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य सतीय: पाद । १११ दीक्षितान्नमभोज्यं स्यादक्रीते राजनि ध्रुवम् । क्रीते त्वभोजनं नाम मनः कर्म नियम्यते । यथैवाश्राद्धभोजित्वं यथा वा ऽमांसभक्षणाम । श्राद्धमन्तद्दशाहं हि नियोगेन निषिध्यते । एकोद्दिष्ट सदेकेषां न तु पित्र्यं कदाचन। तबाश्राद्वभोजित्वनियमः खगायेति विज्ञायते । तथा षष्ट्य छष्टमोचतुर्दशीपञ्चदशोषु मांसभक्षणमैथुनादिक्रियाप्रतिषेधाङ्ग इस्यस्यान्यत्र कामचार प्राप्त तदकरणनियमः श्रयस् विहिती यथाइ न मांसभक्षणे दोषो न मद्ये न च मैथुने। प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफलेति । ननु च वाक्यद्वयदर्शनात्तत्र संयोगपृथकं युक्तमिह त्वेकमे व दीक्षितान्नभोजनप्रतिषेधवाक्यं कथं प्राक्यात्प्रतिषेधति त दुत्तरकालं च प्रागग्रीषोमीयसमाझेः निश्रेयसेन नियच्छतीति ॥ तदुच्यत ॥ स्याद्वाक्यद्वयमेवेतट्वधिदयकल्पितम । यः पर्वः प्रतिषेधो ऽत्र संस्मितः क्रीतराञ्जके। परो ऽवधिः पुनस्तस्य नैकत्वादवकल्पते । द्वितीयान्नाट्नानज्ञाटर्शनातेन गम्यते । अभोजनविधिनूनमस्यन्योप्यन्तररालिकः । नचि पूर्वमनुज्ञाते स्यादनुज्ञान्तरं पुनः। वरणादभ्यनुज्ञाते निर्वापे किमनुज्ञया । यथाध्वयव्र्वरणवेखायामेव स्वै यजमानेन यज्ञोपयोगि ।।