पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद: । सा तु खाङ्गान्तिमूलैव न स्पष्टश्रुतिमूलिका। स्वातन्त्र्येण प्रमाणत्वं स्मृतेस्तावन्न सम्मतम् । वेदमूलानुमानं च प्रत्यक्षेण विरुध्यते । वेदवाक्यानुमानं छि तावदेव प्रवर्त्तते। तदर्थविषयं यावत्प्रत्यक्ष नोपलभ्यते । प्रत्यक्ष श्रूयमाण तु न विद्यतानुमानिकम । न हि हस्तिनि दृष्ट ऽपि तत्पदनानुमिध्यते । स्मृतीनां श्रुतिलिङ्गत्वमस्ति इस्तिपदादिवत्। तत्प्रत्यक्षविरुद्धत्वे तद्ददेव निवाय्र्यते । तावदेव स्फरन्यथर्याः पुरस्तादानुमानिकाः। यावत्प्रत्यशास्त्रेण मूलमेषां न कृन्यते । कृत्तमूनाः स्फुरन्योपि स्मृतयो न चिरायुषः । निराधारत्वदोषेण शाखा इव वनस्पतेः । न हि साशात्प्रमाणत्वं स्मृतीनामपपद्यते । नान्यमूलं यतस्तस्यात्तत्सु मूलं न विद्यते। प्रत्यक्षाप्रतिवद्वा हि श्रुतिन्नस्यानुमानिकी । नैराकाङ्च्ह्यात्प्रमावृणामनुमानं न लभ्यते ॥ प्रमेयं यत्परिच्छेद्य भवेत्कन चिदात्मना। तस्य स्यात्तत्परिच्छेदात्सावकाशप्रमाणता ।। ताद्रयेण परिच्छिन्ने तद्विपर्ययतो ऽपि वा। भयस्तस्मिन्प्रमेयं हि न प्रमाणं प्रवर्तते । भिन्नकक्षागते ये च प्रमाणे तच धावतः । तयोः शीघ्रण निणति मन्थरं न प्रवर्तते । तद्वि दूरमपि प्राप्तमेकमप्यगतं पदम्।