ऋग्वेदः सूक्तं ७.९५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.९५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.९४ ऋग्वेदः - मण्डल ७
सूक्तं ७.९५
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.९६ →
दे. सरस्वती, ३ सरस्वान्। त्रिष्टुप्।

प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः ।
प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः ॥१॥
एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् ।
रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥२॥
स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु ।
स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥३॥
उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्ञे अस्मिन् ।
मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः ॥४॥
इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व ।
तव शर्मन्प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥५॥
अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः ।
वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥६॥

सायणभाष्यम्

‘प्र क्षोदसा' इति षडृचं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं सरस्वतीदेवताकम् । तृतीया तु सरस्वद्देवताका । अनुक्रम्यते च -– प्र क्षोदसा षट् सारस्वतं तु तृतीया सरस्वते' इति । गतः सूक्तविनियोगः । प्रथमे छन्दोमे प्रउगशस्त्रे ‘प्र क्षोदसा धायसा सस्र एषेति प्रउगम्' (आश्व. श्रौ. ८. ९) इति । सारस्वते पशौ ‘प्र क्षोदसा' इति वपाया याज्या। सूत्रितं च- प्र क्षोदसा धायसा सस्र एषा पावीरवी कन्या चित्रायुः' (आश्व. श्रौ. ३. ७) इति ॥


प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः ।

प्र॒बाब॑धाना र॒थ्ये॑व याति॒ विश्वा॑ अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ॥१

प्र । क्षोद॑सा । धाय॑सा । स॒स्रे॒ । ए॒षा । सर॑स्वती । ध॒रुण॑म् । आय॑सी । पूः ।

प्र॒ऽबाब॑धाना । र॒थ्या॑ऽइव । या॒ति॒ । विश्वाः॑ । अ॒पः । म॒हि॒ना । सिन्धुः॑ । अ॒न्याः ॥१

प्र । क्षोदसा । धायसा । सस्रे । एषा । सरस्वती । धरुणम् । आयसी । पूः ।।

प्रऽबाबधाना । रथ्याऽइव । याति । विश्वाः । अपः । महिना । सिन्धुः । अन्याः ॥ १ ॥

सरस्वत्या एषा नदीवन्निगमा । एषा दृश्यमाना नदीरूपा “सरस्वती “आयसी अयसा निर्मिता “पूः पुरीव “धरुणम् । लिङ्गव्यत्ययः । धरुणा धारयित्री “धायसा धारकेण “क्षोदसा उदकेन “प्र “सस्रे प्रधावति शीघ्रं गच्छति । “सिन्धुः स्यन्दनशीला नदीरूपा सा “अन्याः “विश्वाः सर्वाः “अपः आपगाः “महिना महिम्ना “प्रबाबधाना भृशं बाधमाना “रथ्येव प्रतोलीव विस्तीर्णा सती “याति गच्छति । यद्वा । रथ्येव रथिनेव यथा रथी रथेन मार्गस्थं तरुगुल्मादिकं चूर्णीकृत्य गच्छति तद्वत् स्वकीयेन वेगेन सर्वं संपिंषती गच्छतीत्यर्थः ॥


सारस्वत एव पशौ वपायाः ‘ एकाचेतत्' इत्यनुवाक्या । सूत्रितं च--- एका चेतत्सरस्वती नदीनामुत स्या नः सरस्वती जुषाणा' (आश्व. श्रौ. ३. ७) इति ॥

एका॑चेत॒त्सर॑स्वती न॒दीनां॒ शुचि॑र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् ।

रा॒यश्चेत॑न्ती॒ भुव॑नस्य॒ भूरे॑र्घृ॒तं पयो॑ दुदुहे॒ नाहु॑षाय ॥२

एका॑ । अ॒चे॒त॒त् । सर॑स्वती । न॒दीना॑म् । शुचिः॑ । य॒ती । गि॒रिऽभ्यः॑ । आ । स॒मु॒द्रात् ।

रा॒यः । चेत॑न्ती । भुव॑नस्य । भूरेः॑ । घृ॒तम् । पयः॑ । दु॒दु॒हे॒ । नाहु॑षाय ॥२

एका । अचेतत् । सरस्वती । नदीनाम् । शुचिः । यती। गिरिऽभ्यः । आ । समुद्रात् ।

रायः । चेतन्ती। भुवनस्य । भूरेः । घृतम् । पयः । दुदुहे। नाहुषाय ॥ २ ॥

सहस्रवत्सरेण क्रतुना यक्ष्यमाणो नाहुषो नाम राजा सरस्वतीं नदीं प्रार्थयामास । सा च तस्मै सहस्रसंवत्सरपर्याप्तं पयो घृतं च प्रददौ । अथमर्थोऽत्र प्रतिपाद्यते । नदीनाम् अन्यासां मध्ये “शुचिः शुद्धा "गिरिभ्यः सकाशात् “आ "समुद्रात् समुद्रपर्यन्तं “यती गच्छन्ती “एका “सरस्वती नदी “अचेतत् । नाहुषस्य प्रार्थनामज्ञासीत् । तथा “भुवनस्य भूतजातस्य “भूरेः बहुलस्य “रायः धनानि “चेतन्ती प्रज्ञापयन्ती प्रयच्छन्ती “नाहुषाय राज्ञे “घृतं पयः च सहस्रसंवत्सरक्रतोः पर्याप्तं “दुदुहे दुग्धवती दत्तवती ।।


सरस्वद्देवताके पशौ ‘स वावृधे' इति पुरोडाशस्य याज्या । सूत्रितं च -- स वावृधे नर्यो योषणासु यस्य व्रतं पशवो यन्ति सर्वे' (आश्व. श्रौ. ३. ८) इति ॥

स वा॑वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु॑र्वृष॒भो य॒ज्ञिया॑सु ।

स वा॒जिनं॑ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये॑ त॒न्वं॑ मामृजीत ॥३

सः । व॒वृ॒धे॒ । नर्यः॑ । योष॑णासु । वृषा॑ । शिशुः॑ । वृ॒ष॒भः । य॒ज्ञिया॑सु ।

सः । वा॒जिन॑म् । म॒घव॑त्ऽभ्यः । द॒धा॒ति॒ । वि । सा॒तये॑ । त॒न्व॑म् । म॒मृ॒जी॒त॒ ॥३

सः । ववृधे। नर्यः। योषणासु । वृषा । शिशुः । वृषभः । यज्ञियासु ।

सः । वाजिनम् । मघवत्ऽभ्यः । दधाति । वि । सातये । तन्वम् । ममृजीत ॥ ३ ॥

मध्यस्थानो वायुः सरस्वान् । “नर्यः नृभ्यो हितः वृषा सेचनसमर्थः “शिशुः अल्पः प्रादुर्भावसमयेऽल्पतया दृश्यमानः “वृषभः वर्षिता एवंभूतः “सः सरस्वान् “यज्ञियासु यज्ञार्हासु “योषणासु योषित्स्वात्मनः कलत्रभूतासु मध्यमस्थानास्वप्सु मध्ये "ववृधे वर्धते । “सः तादृशः सरस्वान् “मघवद्भ्यः हविष्मद्भ्यो यजमानेभ्यः "वाजिनं बलिनं पुत्रं “दधाति ददाति । तथा “सातये लाभार्थं “तन्वं तेषां शरीरं “वि "मामृजीत विमार्ष्टि । लाभार्थं संस्करोतीत्यर्थः । यद्यप्येषा सरस्वतः स्तुतिस्तथापि सरस्वत्याः प्रीणनार्थं तत्स्तवनमिति छान्दोमिके सारस्वते तृचेऽस्या उक्तो विनियोगो न विरुध्यते ॥


दशरात्रेऽष्टमेऽहनि प्रउगे ‘उत स्या नः' इति सारस्वतः सप्तमस्तृचः । सूत्रितं च- उत स्या नः सरस्वती जुषाणेति प्रउगम्' (आश्व. श्रौ. ८. १०) इति । सारस्वते पशौ पुरोडाशस्य ‘उत स्या नः' इत्यनुवाक्या। सूत्रितं च--' उत स्या नः सरस्वती जुषाणा सरस्वत्यभि नो नेषि वस्यः' (आश्व. श्रौ. ३. ७) इति ॥

उ॒त स्या न॒ः सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा॑ य॒ज्णे अ॒स्मिन् ।

मि॒तज्ञु॑भिर्नम॒स्यै॑रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥४

उ॒त । स्या । नः॒ । सर॑स्वती । जु॒षा॒णा । उप॑ । श्र॒व॒त् । सु॒ऽभगा॑ । य॒ज्ञे । अ॒स्मिन् ।

मि॒तज्ञु॑ऽभिः । न॒म॒स्यैः॑ । इ॒या॒ना । रा॒या । यु॒जा । चि॒त् । उत्ऽत॑रा । सखि॑ऽभ्यः ॥४

उत । स्या । नः । सरस्वती । जुषाणा। उप । श्रवत् । सुऽभगा। यज्ञे । अस्मिन् ।

मितज्ञुऽभिः । नमस्यैः । इयाना । राया। युजा । चित् । उत्ऽतरा । सखिऽभ्यः ॥ ४ ॥

"उत अपि च "जुषाणा प्रीयमाणा "सुभगा शोभनधना “स्या सा “सरस्वती “नः अस्माकम् “अस्मिन् “यज्ञे “उप “श्रवत् । अस्मदीयाः स्तुतीरुपशृणोतु । कीदृशी सा। “मितज्ञुभिः प्रह्वैर्जानुभिः “नमस्यैः नमस्कारैर्देवैः “इयाना उपगम्यमाना । चिच्छब्दश्चार्थे । “युजा नित्ययुक्तेन “राया धनेन च संगता “सखिभ्यः "उत्तरा उत्कृष्टतरा । ईदृश्यस्मदीयाः स्तुतीरुपशृणोत्वित्यन्वयः ॥


पवित्रेष्ट्यां सारस्वतस्य हविषः ‘इमा जुह्वानाः' इति याज्या । सूत्रितं च--- इमा जुह्वाना युष्मदा नमोभिर्दधिक्राव्णो अकारिषम्' (आश्व. श्रौ. २. १२) इति ॥

इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भि॒ः प्रति॒ स्तोमं॑ सरस्वति जुषस्व ।

तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ॥५

इ॒मा । जुह्वा॑नाः । यु॒ष्मत् । आ । नमः॑ऽभिः । प्रति॑ । स्तोम॑म् । स॒र॒स्व॒ति॒ । जु॒ष॒स्व॒ ।

तव॑ । शर्म॑न् । प्रि॒यऽत॑मे । दधा॑नाः । उप॑ । स्थे॒या॒म॒ । श॒र॒णम् । न । वृ॒क्षम् ॥५

इमा । जुह्वानाः । युष्मत् । आ । नम:ऽभिः । प्रति । स्तोमम् । सरस्वति । जुषस्व ।।

तव । शर्मन् । प्रियऽतमे । दधानाः । उप । स्थेयाम । शरणम्। न । वृक्षम् ॥ ५ ॥

हे "सरस्वति “इमा इमान्यस्मदीयानि हवींषि "जुह्वानाः तुभ्यं जुह्वतो वयं “नमोभिः त्वद्विषयैः नमस्कारैः "युष्मदत् त्वत्सकाशात् "आ। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । आददीमहि धनानीति शेषः । “स्तोमं चास्मदीयं स्तोत्रं “प्रति जुषस्व प्रतिसेवस्व । वयं च प्रियतमे अतिशयेन प्रिये “तव त्वदीये “शर्मन् शर्मणि सुखे “दधानाः निधीयमानाः सन्तः “शरणं न "वृक्षम् आश्रयभूतं वृक्षमिव “उप “स्थेयाम त्वामुपतिष्ठेम संगच्छेमहि ॥


अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा॑वृ॒तस्य॑ सुभगे॒ व्या॑वः ।

वर्ध॑ शुभ्रे स्तुव॒ते रा॑सि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६

अ॒यम् । ऊं॒ इति॑ । ते॒ । स॒र॒स्व॒ति॒ । वसि॑ष्ठः । द्वारौ॑ । ऋ॒तस्य॑ । सु॒ऽभ॒गे॒ । वि । आ॒व॒रित्या॑वः ।

वर्ध॑ । शु॒भ्रे॒ । स्तु॒व॒ते । रा॒सि॒ । वाजा॑न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६

अयम् । ऊँ इति । ते । सरस्वति । वसिष्ठः । द्वारौ। ऋतस्य । सुऽभगे । वि । आवरित्यावः।

वर्ध। शुभ्रे । स्तुवते । रासि । वाजान् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ६ ॥

हे "सुभगे शोभनधने सरस्वति "अयं “वसिष्ठः “ते त्वां यन्तुः “ऋतस्य यज्ञस्य संबन्धिन्यौ “द्वारौ पूर्वापरे “व्यावः विवृणोति । “उ इति पूरकः । हे शुभ्रे शुभ्रवर्णे देवि “वर्ध वर्धस्व । तथा “स्तुवते स्तोत्रं कुर्वते वसिष्ठाय “वाजान् अन्नानि “रासि प्रदेहि । अन्यद्गतम् ॥ ॥ १९ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.९५&oldid=209148" इत्यस्माद् प्रतिप्राप्तम्