सदस्यः:Dineshdas007

विकिस्रोतः तः

सचिनतेण्डुलकरः (Sachin Tendulkar) प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे, महाप्रतिक् भाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव। सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र आस्ट्रेलिया भारतयोः द्वितीयं टेस्ट् प्रवृत्तम् ।

वेस्ट-इण्डिसदेशीयेन ब्रियानलारेण ११,९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितन्ह्थ्म् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । पीटरसिडलस्य प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम्।

सः टेस्ट्क्रीडासु (३९) ओ.डि.ऐ.क्रीडासु, अन्ताराष्ट्रिय-एकदिवसीयक्रीडासु(४२) च आहत्य १६,३६१ धावनाङ्कान् पाप्य जागतिकविक्रमं निर्मितवान् अस्ति । क्रीडाजीवनस्य आरम्भावसरे सः आसीत् षोडाशवर्षीयः । तदा लिटल् मास्टर् इति प्रीत्या सः सर्वैः निर्दिष्टः भवति स्म । मुम्बयीनगरे जातः अयम् एतावता २५ टेस्टक्रीडासु नायकत्वं निरूढवानस्ति । तेण्डुलकरस्य द्दढाग्रहः निष्ठायुता परिश्रमशीलता च तस्य यशसः कारणानि । एकदिनात्मिकायां क्रीडायां तेन १०० क्रीडापटवः बाह्यीकृताः, १०० कन्दुक-ग्रहणानि कृतानि च सन्ति । प्रसिद्धस्य वीक्षकविवरणकर्तुः हर्षाभोग्लेवर्यः वदति -‘सचिनः क्रिकेटरूपस्य गौरीशङ्करपर्वतस्य शिखरे एव स्थितः अस्ति’ इस्ज्।

सचिन् रमेश् तेण्डुल्कर् एप्रिल्मासस्य २४ तमे दिने १९७३ तमे वर्षे जातः। अयं भारतीयक्रिकेट्-क्रीडालुः विश्वस्य क्रिकेट्-इतिहासे अतिश्रेष्ठक्रिकेट्-ब्याट्स्मन् वर्तते । सः क्रिकेट्-इतिहासे एव अत्यधिकशतकानि अपि साधितवानस्ति, पञ्चदिवसीय क्रिकेट् क्रीडास्पर्धायां (टेस्ट् इति कथ्यते) एकदिवसीयायाम् अन्ताराष्ट्रिय-क्रिकेट्-क्रीडायां च । एकदिवसीयक्रीडायां द्विशतकं धावनाङ्कान् साधितवत्सु क्रीडालुषु एषः प्रथमः अस्ति । २००२ तमे वर्षे यदैषः १२ वर्षाणिमात्रं क्रीडितवानासीत् तदा एव क्रिकेट्-क्रीडासम्बद्धा विस्डेन्नान बम्गय मिका पत्रिका उदघोषयत् यत् 'एषः विश्वस्य अतिश्रेष्ठेषु दाण्डिकक्रीडालुषु सार्वकालिकद्वितीयायां श्रेण्यां तिष्ठति, टेस्ट्-क्रिकेट्-क्रीडायां प्रसिद्धस्य क्रीडालोः डोनाल्ड् ब्राड्मन्स्य समनन्तरमिति परेम् , एकदिवसीय-क्रिकेट्-स्पर्धायामपि रजेष् क्रीडालोः विवियन् रिचर्ड्स्स्य समनन्तरम् एषः एव तिष्ठति इति । २००७ तमे वर्षे सेप्टम्बर्मासे आस्ट्रेलियादेशस्य ख्यातः कन्दुकक्षेपकः(bowler) शेन् वार्न् अवदत् यत् 'तेण्डुल्करः स्वेन सासवान् कं क्रीडितवत्सु सोउन्दर्य अतिश्रेष्ठः क्रीडालुः' इति । २०११ तमे वर्षे भारतीयक्रिकेट्-गणेन विश्वप्रशस्तिस्पर्धायां यः विक्रमः प्राप्तः तस्य प्राप्तौ तेण्डुल्करस्य पात्रं मुख्यम् आसीत् । सचिनः विश्वप्रशस्ति-क्रिकेट्-स्पर्धायां षड्वारं भागम् ऊढवान् अस्ति ।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Dineshdas007&oldid=40521" इत्यस्माद् प्रतिप्राप्तम्