सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.3 तृतीयप्रपाठकः/2.3.1 प्रथमोऽर्द्धः

विकिस्रोतः तः


प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि ।
प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ।। ८८६ ।।
उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः ।
यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति ।। ८८७ ।।
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः ।
व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि ।। ८८८ ।।
लौशाद्यम्
शैखण्डिनम्



पवमानो अजीजनद्दिवश्चित्रं न तन्यतुं ।
ज्योतिर्वैश्वानरं बृहत् ।।८८९ ।।
पवमान रसस्तव मदो राजन्नदुच्छुनः ।
वि वारमव्यमर्षति ।। ८९० ।।
पवमानस्य ते रसो दक्षो वि राजति द्युमान् ।
ज्योतिर्विश्वं स्वर्दृशे ।। ८९१ ।।



प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः ।
घ्नन्तः कृष्णामप त्वचं ।। ८९२ ।।
सुवितस्य मनामहेऽति सेतुं दुराय्यं ।
साह्याम दस्युमव्रतं ।। ८९३ ।।
शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः ।
चरन्ति विद्युतो दिवि ।। ८९४ ।।
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् ।
अश्ववत्सोम वीरवत् ।।८९५ ।।
पवस्व विश्वचर्षण आ मही रोदसी पृण ।
उषाः सूर्यो न रश्मिभिः ।। ८९६ ।।
परि नः शर्मयन्त्या धारया सोम विश्वतः ।
सरा रसेव विष्टपं ।। ८९७ ।।



आशुरर्ष बृहन्मते परि प्रियेण धाम्ना ।
यत्र देवा इति ब्रुवन् ।।८९८ ।।
परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः ।
वृष्टिं दिवः परि स्रव ।। ८९९ ।।
अयं स यो दिवस्परि रघुयामा पवित्र आ ।
सिन्धोरूर्मा व्यक्षरत् ।।९०० ।।
सुत एति पवित्र आ त्विषिं दधान ओजसा ।
विचक्षाणो विरोचयन् ।।९०१ ।।
आविवासन्परावतो अथो अर्वावतः सुतः ।
इन्द्राय सिच्यते मधु ।। ९०२ ।।
समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः ।
इन्दुमिन्द्राय पीतये ।। ९०३ ।।



हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिं ।
महामिन्दुं महीयुवः ।। ९०४ ।।
पवमान रुचारुचा देवो देवेभ्यः सुतः ।
विश्वा वसून्या विश ।। ९०५ ।।
आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।
इषे पवस्व संयतं ।। ९०६ ।।
विशोविशीयम्


जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः ।। ९०७ ।।
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने ।
स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः ।। ९०८ ।।
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते ।
इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ।। ९०९ ।।



अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।
ममेदिह श्रुतं हवं ।। ९१० ।।
राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे ।
सहस्रस्थूण आशाते ।। ९११ ।।
ता सम्राजा घृतासुती आदित्या दानुनस्पती ।
सचेते अनवह्वरं ।। ९१२ ।।



इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
जघान नवतीर्नव ।। ९१३ ।।
इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितं ।
तद्विदच्छर्यणावति ।। ९१४ ।।
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यं ।
इत्था चन्द्रमसो गृहे ।। ९१५ ।।



इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।
अभ्राद्वृष्टिरिवाजनि ।। ९१६ ।।
शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः ।
ईशाना पिप्यतं धियः ।। ९१७ ।।
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये ।
मा नो रीरधतं निदे ।। ९१८ ।।

१०
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।
मरुद्भ्यो वायवे मदः ।। ९१९ ।।
सं देवैः शोभते वृषा कविर्योनावधि प्रियः ।
पवमानो अदाभ्यः ।। ९२० ।।
पवमान धिया हितो३ऽभि योनिं कनिक्रदत् ।
धर्मणा वायुमारुहः ।। ९२१ ।।
अदारसृक्

११
तवाहं सोम रारण सख्य इन्दो दिवेदिवे ।
पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि ।। ९२२ ।।
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि ।
घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ।। ९२३ ।।
आष्टादꣳष्ट्रमोत्तरम्
आभीशवोत्तरम्
स्वᳲपृष्ठम्
महादिवाकीर्त्यानि
महावैराजे

१२
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।
शुम्भन्ति विप्रं धीतिभिः ।। ९२४ ।।
आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतं ।
ध्रुवे सदसि सीदतु ।। ९२५ ।।
नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणं ।। ९२६ ।।
सत्रासाहीयम्

१३
पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
सोतुर्बाहुभ्यां सुयतो नार्वा ।। ९२७ ।।
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।
स त्वामिन्द्र प्रभूवसो ममत्तु ।। ९२८ ।।
बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिं ।
इमा ब्रह्म सधमादे जुषस्व ।। ९२९ ।।

महावैराजम्

१४
विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।
क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनं ।। ९३० ।।
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे ।
सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ।। ९३१ ।।
समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये ।
स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ।। ९३२ ।।

त्रैशोकम्

१५
यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ।। ९३३ ।।
इन्द्रं तं शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि ।
हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः ।। ९३४ ।।

भरद्वाजस्य पृश्नि



१६
परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।
स्वानैर्याति कविक्रतुः ।। ९३५ ।।
स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् ।
महान्मही ऋतावृधा ।। ९३६ ।।
प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः ।
वीत्यर्ष पनिष्टये ।। ९३७ ।।
और्णायवमाद्यम्
और्णायवोत्तरम्


१७
त्वं ह्या३ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
अमृतत्वाय घोषयन् ।।९३८ ।।
येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।
देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत ।। ९३९ ।।
बृहत्कम्
स्वारं सौपर्णम्

१८
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति ।
अग्रे वाचः पवमानः कनिक्रदत् ।।९४० ।।
धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविं ।
अभि त्रिपृष्ठं मतयः समस्वरन् ।।९४१ ।।
असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः ।
पुनानो वाचं जनयन्नसिष्यदत् ।।९४२ ।।
आतीषादीयम्

१९
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ।। ९४३ ।।
ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणां ।
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ।।९४४ ।।
प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः ।
अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ।।९४५ ।।
जनित्रम्
जनित्रे द्वे
वात्सप्रम्


२०
अग्निं वो वृधन्तमध्वराणां पुरूतमं ।
अच्छा नप्त्रे सहस्वते ।। ९४६ ।।
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या ।
अस्य क्रत्वा यशस्वतः ।। ९४७ ।।
अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते ।
आ वाजैरुप नो गमत् ।।९४८ ।।
सैन्धुक्षितं साम

२१
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदं ।
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ।। ९४९ ।।
न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे ।
न किष्ट्वानु मज्मना न किः स्वश्व आनशे ।। ९५० ।।
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन ।
सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ।। ९५१ ।।
वसिष्ठप्रियं
गौरिवीतम्

२२
इन्द्र जुषस्व प्र वहा याहि शूर हरिह ।
पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय ।। ९५२ ।।
इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न ।
अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः ।। ९५३ ।।
इन्द्रस्तुराषाण्मित्रो न जघान वृत्रं यतिर्न ।
बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य ।। ९५४ ।।
गौरीवितम्