सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.1 प्रथमप्रपाठकः/1.1.1.2 द्वितीया दशतिः

विकिस्रोतः तः

नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
अमैरमित्रमर्दय ॥ ११ ॥

दूतं वो विश्ववेदसं हव्यवाहममर्त्यं ।
यजिष्ठमृञ्जसे गिरा ॥ १२ ॥

उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
वायोरनीके अस्थिरन् ॥१३ ॥
बृहस्पतेर्बलभिदौ

उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयं ।
नमो भरन्त एमसि ॥ १४ ॥
वैश्वामित्रम्

जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
स्तोमं रुद्राय दृशीकं ॥ १५ ॥

प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे ।
मरुद्भिरग्न आ गहि ॥ १६ ॥

अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
सम्राजन्तमध्वराणां ॥ १७ ॥
वारवन्तीयम्

और्वभृगुवच्छुचिमप्नवानवदा हुवे ।
अग्निं समुद्रवाससं ॥ १८ ॥

अग्निमिन्धानो मनसा धियं सचेत मर्त्यः ।
अग्निमिन्धे विवस्वभिः ॥ १९ ॥

आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरं ।
परो यदिध्यते दिवि ॥ २० ॥