ॠणमोचनमहागणपतिस्तोत्रम्

विकिस्रोतः तः
ॠणमोचनमहागणपतिस्तोत्रम्
[[लेखकः :|]]
ॠणमोचनमहागणपतिस्तोत्रम्


श्रीगणेशायनमः||
ॐ अस्य श्रीॠणमोचन महागणपतिस्त्रोत्र मंत्रस्य भगवान् शुक्राचार्याॠषि: ॠणमोचनगणपतिर्देवता ॠणमोचनार्थे जपे विनियोगः ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलं ||

महाविध्नहरं सौम्यं नमामि ॠणमुक्तये ||१||

महागणपतिं देवं महासत्यं महाबलं || महाविध्नहरं सौम्यं नमामि ॠणामुक्तये ||२||

एकाक्षरं एकदंतं एकब्रह्मसनातनं || एकमेवारव्दितीयं च नममि ॠणामुक्तये ||३||

रक्तांबरं रक्तवर्णं रक्तंगधानुलेपनं || रक्तपुष्पै: पूजामानं नमामि ॠणामुक्तये ||४||

कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनं || कृष्णपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ||५||

पीतांबरं पीतवर्णं पीतगंधानुलेपनं || पीतपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ||६||

धूम्रांबारं धूम्रवर्णं धूम्रगंधानुलेपनं || धूम्रपष्पै: पूज्यमानं नमामि ॠणमुक्तये ||७||

सर्वांबरं सर्ववर्णं सर्वगंधानुलेपनं || सर्वपुष्पै: पूज्यमानं नमामि ॠणमुक्तये ||८||

भद्रजातं च रुपं च पाशांकुशधरं शुभं || सर्वविघ्नहरं देवं नमामि ॠणमुक्तये ||९||

यः पठेत् ॠणहरस्तोत्रं प्रातःकाले शुचिर्नरः || षण्मासाभ्यंतरे चैव ॠणच्छेदो भविष्यति ||१०||

इति श्रीब्रह्मांडपुराणे ॠणमोचनमहागणपतिस्तोत्रं संपूर्णम् |