हितोपदेशम् 03

विकिस्रोतः तः

--ओ)०(ओ--
द्वितीयः कथा-संग्रहः
इइ. सुहृद्-भेदः
अथ राज-पुत्रा ऊचुः-आर्य ! मित्रलाभः श्रुतस् तावद् अस्माभिः। इदानीं सुहृद्-भेदं श्रोतुम् इच्छामः।
विष्णुशर्मोवाच-सुहृद्-भेदं तावच् छृणुत, यस्यायम् आद्यः श्लोकः-
वर्धमानो महान् स्नेहो मृगेंद्र-वृषयोर् वने। पिशुनेनातिलुब्धेन जंबुकेन विनाशितः॥हित्_२.१॥
राज-पुत्रैर् उक्तम्-कथम् एतत् ?
विष्णुशर्मा कथयति-अस्ति दक्षिणा-पथे सुवर्णवती नाम नगरी। तत्र वर्धमानो नाम वणिग् निवसति। तस्य प्रचुरेपि वित्ते परान् बंधून् अतिसमृढान् समीक्ष्य पुनर् अर्थ-वृढिः करणीयेति मतिर् बभूव। यतः,
अधो धः पश्यतः कस्य महिमा नोपचीयते। उपर्य् उपरि पश्यंतः सर्व एव दरिद्रति॥हित्_२.२॥
अपरं च- ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम्। शशिनस् तुल्य-वंशो पि निर्धनः परिभूयते॥हित्_२.३॥
अंयच् च- अव्यवसायिनम् अलसं दैव-परं सहसाच् च परिहीणम्। प्रमदेव हि वृढ-पतिं नेच्छत्य् अवगूहितुं लक्ष्मीः॥हित्_२.४॥
किं च- आलस्यं स्त्री-सेवा स-रोगता जन्म-भूमि-वात्सल्यम्। संतोषो भीरुत्वं षड् व्याघाता महत्त्वस्य॥हित्_२.५॥
यतः- संपदा सुस्थिरं-मंयो भवति स्वल्पयापि यः। कृतकृत्यो विधिर् मंये न वर्धयति तस्य ताम्॥हित्_२.६॥
अपरं च- निरुत्साहं निरानंदं निर्वीर्यम् अरि-नंदनम्। मा स्म सीमंतिनी काचिज् जनयेत् पुत्रम् ईदृशम्॥हित्_२.७॥
तथा चोक्तम्- अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः। रक्षितं वर्धयेच् चैव वृढं पात्रेषु निक्षिपेत्॥हित्_२.८॥
यतो लब्धम् इच्छतो र्थ-योगाद् अर्थस्य प्राप्तिर् एव। लब्धस्याप्य् अरक्षितस्य निधेर् अपि स्वयं विनाशः। अपि च, अवर्धमानश् चार्थः काले स्वल्प-व्ययो प्य् अञ्जनवत् क्षयम् एति। नौपभुज्यमानश् च निष्प्रयोजन एव सः। तथा चोक्तम्-
धनेन किं यो न ददाति नाश्नुते बलेन किं यश् च रिपून् न बाधते। श्रुतेन किं यो न च धर्मम् आचरेत् किम् आत्मना यो न जितेंद्रियो भवेत्॥हित्_२.९॥
यतः, जल-बिंदु-निपातेन क्रमशः पूर्यते घटः। स हेतुः सर्व-विद्यानां धर्मस्य च धनस्य च॥हित्_२.१०॥
दानोपभोग-रहिता दिवसा यस्य यांति वै। स कर्म-कार-भस्त्रेव श्वसंन् अपि न जीवति॥हित्_२.११॥
इति संचिंत्य नंदक-सजीवक-नामानौ वृषभौ धुरि नियोज्य शकटं नानाविध-द्रव्य-पूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति। अंयच् च-
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम्। अवंध्यं दिवसं कुर्याद् दानाध्ययन-कर्मभिः॥हित्_२.१२॥
यतः- को तिभारः समर्थानां किं दूरं व्यवसायिनाम्। को विदेशः सविद्यानां कः परः प्रिय-वादिनाम्॥हित्_२.१३॥
अथ गच्छतस् तस्य सुदुर्ग-नाम्नि महारण्ये सञ्जीवको भग्न-जानुर् निपतितः। तम् आलोक्य वर्धमानो चिंतयत्-
करोतु नाम नीति-ज्ञो व्यवसायम् इतस् ततः। फलं पुनस् तद् एव स्याद् यद् विधेर् मनसि स्थितम्॥हित्_२.१४॥
किंतु- विस्मयः सर्वथा हेयः प्रत्यूहः सर्व-कर्मणाम्। तस्माद् विस्मयम् उत्सृज्य साध्ये सिढिर् विधीयताम्॥हित्_२.१५॥
इति संचिंत्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायम् अंयं वृषभम् एकं समानीय धुरि नियोज्य चलितः। ततः संजीवको पि कथं कथम् अपि खुर-त्रये भरं कृत्वोठितः। यतः- निमग्नस्य पयो-राशौ पर्वतात् पतितस्य च। तक्षकेणापि दष्टस्य आयुर् मर्माणि रक्षति॥हित्_२.१६॥
नाकाले मिर्यते जंतुर् विढः शर-शतैर् अपि। कुशाग्रेणैव संस्पृष्टः प्राप्त-कालो न जीवति॥हित्_२.१७॥
अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति। जीवत्य् अनाथो पि वने विसर्जितः कृत-प्रयत्नो पि गृहे न जीवति॥हित्_२.१८॥
ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहार-विहारं कृत्वारण्यं भ्राम्यन् हृष्ट-पुष्टांगो बलवन् ननाद। तस्मिन् वने पिंगलक-नामा सिंहः स्व-भुजोपार्जित-राज्य-सुखम् अनुभवन् निवसति। तथा चोक्तम्-
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः। विक्रमार्जित-राज्यस्य स्वयम् एव मृगेंद्रता॥हित्_२.१९॥
स चैकदा पिपासाकुलितः पानीयं पातुं यमुना-कच्छम् अगच्छत्। तेन च तत्र सिंहेनाननुभूत-पूर्वकम् अकाल-घन-गर्जितम् इव संजीवक-नर्दितम् अश्रावि। तच् छ्रुत्वा पानीयम् अपीत्वा स-चकितः परिवृत्य स्व-स्थानम् आगत्य किम् इदम् इत्य् आलोचयंस् तूष्णीं स्थितः। स च तथाविधः करट-कदमनकाभ्याम् अस्य मंत्रि-पुत्राभ्यां दृष्टः। तं तथाविधं दृष्ट्वा दमनकः करटकम् आह-सखे करटक ! किम् इत्य् अयम् उदकार्थी स्वामी पानीयम् अपीत्वा सचकितो मंदं मंदम् अवतिष्ठते।
करटको ब्रूते-मित्र दमनक ! अस्मन्-मतेनास्य सेवैव न क्रियते। यदि तथा भवति तर्हि किम् अनेन स्वामि-चेष्टानिरूपेणास्माकम्। यतो नेन राज्ञा विनापराधेन चिरम् अवधीरिताभ्याम् आवाभ्यां महद्-दुःखम् अनुभूतम्।
सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम्। स्वातंत्र्यं यच् छरीरस्य मूढैस् तद् अपि हारितम्॥हित्_२.२०॥
अपरं च- शीत-वातातप-क्लेशान् सहंते यान् पराश्रिताः। तद्-अंशेनापि मेधावी तपस् तप्त्वा मुखी भवेत्॥हित्_२.२१॥
अंयच् च- एतावज् जन्मसाफल्यं देहिनाम् इह देहिषु। प्राणैर् अर्थैर् धिया वाचा श्रेय एवाचरेत् सदा॥हित्_२.२२॥
अपरं च- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर। इति वित्रस्त-सारंग-नेत्रया को न वञ्चितः॥हित्_२.२३॥
किं च- अबुधैर् अर्थ-लाभाय पण्य-स्त्रीभिर् इव स्वयम्। आत्मा संस्कृत्य संस्कृत्य परोपकरणी-कृतः॥हित्_२.२४॥
किं च- या प्रकृत्यैव चपला निपतत्य् अशुचाव् अपि। स्वामिनो बहु मंयंते दृष्टिं ताम् अपि सेवकाः॥हित्_२.२५॥
अपरं च- मौनान् मूर्खः प्रवचन-पटुर् बातुलो जल्पको वा क्षांत्या भीरुर् यदि न सहते प्रायशो नाभिजातः। धृष्टः पार्श्वे वसति नियतं दूरतश् चाप्रगल्भः सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः॥हित्_२.२६॥
विशेषतश् च- प्रणमत्य् उन्नति-हेतोर् जीवित-हेतोर् विमुञ्चति प्राणान्। दुःखीयति सुख-हेतोः को मूढः सेवकाद् अंयः॥हित्_२.२७॥
दमनको ब्रूते-मित्र सर्वथा मनसापि नैतत् कर्तव्यम्, यतः-
कथं नाम न सेव्यंते यत्नतः परमेश्वराः। अचिरेणैव ये तुष्टाः पूरयंति मनोरथान्॥हित्_२.२८॥
अंयच् च- कुतः सेवा-विहीनानां चामरोढूत-संपदः। उद्दंड-धवल-च्छत्रं वाजि-वारण-वाहिनी॥हित्_२.२९॥
करटको ब्रूते-तथापि किम् अनेनास्माकं व्यापारेण। यतो व्यापारेषु व्यापारः सर्वथा परिहरणीयः। पश्य-
अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति। स एव निधनं याति कीलोत्पटीव वानरः॥हित्_२.३०॥
दमनकः पृच्छति--कथम् एतत् ?
करकटः कथयति-

कथा १[सम्पाद्यताम्]

अस्ति मगध-देशे धर्मारण्य-संनिहित-वसुधायां शुभदत्त-नाम्ना कायस्थेन विहारः कर्तुम् आरब्धः। तत्र करपत्रदार्य-माणैक-स्तंभस्य कियद् दूरस्फाटितस्य काष्ठ-खंड-द्वय-मध्ये कीलकः सूत्र-धारेण निहितः। तत्र बलवान् वानर-यूथः क्रीडंन् आगतः। एको वानरः काल-प्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम्। अनंतरं स च सहज-चपलतया महता प्रयत्नेन तं कीलकम् आकृष्टवान्। आकृष्टे च कीलके चूर्णितांड-द्वयः पञ्चत्वं गतः। अतो हं ब्रवीमि-अव्यापरेषु व्यापारम् इत्य् आदि।
दमनको ब्रूते-तथापि स्वामि-चेष्टा-निरूपणं सेवकेनावश्यं करणीयम्।
करटको ब्रूते-सर्वस्मिंन् अधिकारे य एव नियुक्तः प्रधान-मंत्री स करोतु। यतो नुजीविना पराधिकार-चर्चा सर्वथा न कर्तव्या। पश्य- पराधिकार-चर्चा यः कुर्यात् स्वामि-हितेच्छया। स विषीदति चीत्काराद् गर्दभस् ताडितो यथा॥हित्_२.३१॥
दमनकः पृच्छति--कथम् एतत् ?
करटको ब्रूते-

कथा २[सम्पाद्यताम्]

अस्ति वाराणस्यां कर्पूर-पटको नाम रजकः। स रात्रौ गाढ-निद्रायां प्रसुप्तः। तद्-अनंतरं तद्-गृह-द्रव्याणि हर्तुं चौरः प्रविष्टः। तस्य प्रांगणे गर्दभो बढस् तिष्ठति। कुक्कुरश् चोपविष्टो स्ति। अथ गर्दभः श्वानम् आह-सखे ! भवतस् तावद् अयं व्यापारः। तत् किम् इति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि।
कुक्कुरो ब्रूते-भद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या। त्वम् एव किं न जानासि यथा तस्याहर्निशं गृह-रक्षां करोमि। यतो यं चिरान् निर्वृतो ममोपयोगं न जानाति। तेनाधुनापि ममाहार-दाने मंदादरः। यतो विना विधुर-दर्शनं स्वामिन उपजीविषु मंदादरा भवंति।
गर्दभो ब्रूते-शृणु रे बर्बर ! याचते कार्य-काले यः स किं-भृत्यः स किं-सुहृत्।
कुक्कुरो ब्रूते- भृत्यान् संभाषयेद् यस् तु कार्य-काले स किं-प्रभुः॥हित्_२.३२॥
यतः- आश्रितानां भृतौ स्वामि-सेवायां धर्म-सेवने। पुत्रस्योत्पादने चैव न संति प्रतिहस्तकाः॥हित्_२.३३॥
ततो गर्दभः स-कोपम् आह-अरे दुष्ट-मते ! पापीयांस् त्वं यद् विपत्तौ स्वामि-कार्ये उपेक्षां करोषि। भवतु तावत्। यथा स्वामी जागरिष्यति, तन् मया कर्तव्यम्। यतः- पृष्ठतः सेवयेद् अर्कं जठरेण हुताशनम्। स्वामिनं सर्व-भावेन परलोकम् अमायया॥हित्_२.३४॥
इत्य् उक्त्वातीव चीत्कार-शब्दं कृतवान्। ततः स रजकस् तेन चीत्कारेण प्रबुढो निद्रा-भंग-कोपाद् उठाय गर्दभं लगुडेन तादयामास। तेनासौ पञ्चत्वम् अगमत्। अतो हं ब्रवीमि-पराधिकार-चर्चाम् इत्य् आदि। पश्य, पशूनाम् अंवेषणम् एवास्मन्-नियोगः। स्व-नियोग-चर्चा क्रियताम्। किंत्व् अद्य तया चर्चया न प्रयोजनम्। यत आवयोर् भक्षित-शेषाहारः प्रचुरो स्ति।
दमनकः सरोषम् आह-कथम् आहारार्थी भवान् केवलं राजानं सेवते ? एतद् अयुक्तम् उक्तं त्वया। यतः-
सुहृदाम् उपकार-कारणाद् द्विषताम् अप्य् अपकार-कारणात्। नृप-संश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम्॥हित्_२.३५॥
जीविते यस्य जीवंति विप्रा मित्राणि बांधवाः। सफलं जीवितं तस्य आत्मार्थे को न जीवति॥हित्_२.३६॥
अपि च- यस्मिन् जीवति जीवंति बहवः स तु जीवतु। काको पि किं न कुरुते चञ्च्वा स्वोदर-पूरणम्॥हित्_२.३७॥
पश्य- पञ्चभिर् याति दासत्वं पुराणैः को पि मानवः। को पि लक्षैः कृती को पि लक्षैर् अपि न लभ्यते॥हित्_२.३८॥
अंयच् च- मनुष्य-जातौ तुल्यायां भृत्यत्वम् अति-गर्हितम्। प्रथमो यो न तन् नापि स किं जीवत्सु गण्यते॥हित्_२.३९॥
तथा चोक्तं- वाजि-वारण-लोहानां काष्ठ-पाषाण-वाससाम्। नारी-पुरुष-तोयानाम् अंतरं हद-हंतरम्॥हित्_२.४०॥
तथा हि स्वल्पम् अप्य् अतिरिच्यते- स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसम् अप्य् अस्थिकं श्वा लब्ध्वा परितोषम् एति न भवेत् तस्य क्षुधः शांतये। सिंहो जंबुकम् अंकम् आगतम् अपि त्यक्त्वा निहंति द्विपं सर्वः कृच्छ्र-गतो पि वाञ्छति जनः सत्त्वानुरूपं फलम्॥हित्_२.४१॥अपरं च, सेव्य-सेवकयोर् अंतरं पश्य-
लांगूल-चालनम् अधश् चरणावपातं भूमौ निपत्य वदनोदर-दर्शनं च। श्वा पिंडदस्य कुरुते गज-पुंगवस् तु धीरं विलोकयति चाटु-शतैश् च भुंक्ते॥हित्_२.४२॥
किं च- यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर् विज्ञान-विक्रम-यशोभिर् अभज्यमानम्। तन् नाम जीवितम् इह प्रवदंति तज्-ज्ञाः काको पि जीवति चिराय बलिं च भुंक्ते॥हित्_२.४३॥
अपरं च- यो नात्मजे न च गुरौ न च भृत्य-वर्गे दीने दयां न कुरुते न च बंधु-वर्गे। किं तस्य जीवित-फलेन मनुष्य-लोके काको पि जीवति चिराय बलिं च भुंक्ते॥हित्_२.४४॥
अपरम् अपि- अहित-हित-विचार-शूंय-बुढेः श्रुति-समयैर् बहुभिर् बहिष्कृतस्य। उदर-भरण-मात्र-केवलेच्छोः पुरुष-पशोश् च पशोश् च को विशेषः॥हित्_२.४५॥
करटको ब्रूते-आवां तावद् अप्रधानौ। तदाप्य् आवयोः किम् अनया विचारणया।
दमनको ब्रूते-कियता कालेनामात्याः प्रधानताम् अप्रधानतां वा लभंते, यतः-
न कस्यचित् कश्चिद् इह स्वभावाद् भवत्य् उदारो भिमतः खलो वा। लोके गुरुत्वं विपरीततां वा स्व-चेष्टितांय् एव नरं नयंति॥हित्_२.४६॥
किं च- आरोप्यते शिला शैले यत्नेन महता यथा। निपात्यते क्षणेनाधस् तथात्मा गुण-दोषयोः॥हित्_२.४७॥
यात्य् अधो धः व्रजत्य् उच्चैर् नरः स्वैर् एव कर्मभिः। कूपस्य खनिता यद्वत् प्राकारस्येव कारकः॥हित्_२.४८॥
तद् भद्रम्। स्वयत्नायत्तो ह्य् आत्मा सर्वस्य।
करटको ब्रूते-अथ भवान् किं ब्रवीति ?
स आह-अयं तावत् स्वामी पिंगलकः कुतो पि कारणात् स-चकितः परिवृत्योपविष्टः।
करटको ब्रूते- उदीरितो र्थः पशुनापि गृह्यते हयाश् च नागाश् च वहंति चोदिताः। अनुक्तम् अप्य् ऊहति पंडितो जनः परेंगित-ज्ञान-फला हि बुढयः॥हित्_२.४९॥
आकार-रिंगतैर् गत्या चेष्टया भाषणेन च। नेत्र-वक्त्र-विकारेण लक्ष्यतेंतर्गतं मनः॥हित्_२.५०॥
अत्र भय-प्रस्तावे प्रज्ञा-बलेनाहम् एनं स्वामिनम् आत्मीयं करिष्यामि। यतः-
प्रस्ताव-सदृशं वाक्यं सद्-भाव-सदृशं प्रियम्। आत्म-शक्ति-समं कोपं यो जानाति स पंडितः॥हित्_२.५१॥
करटको ब्रूते-सखे त्वं सेवानभिज्ञः। पश्य-
अनाहूतो विशेद् यस् तु अपृष्टो बहु भाषते। आत्मानं मंयते प्रीतं भू-पालस्य स दुर्मतिः॥हित्_२.५२॥
दमनको ब्रूते-भद्र ! कथम् अहं सेवानभिज्ञः ? पश्य-
किम् अप्य् अस्ति स्वभावेन सुंदरं वाप्य् असुंदरम्। यद् एव रोचते यस्मै भवेत् तत् तस्य सुंदरम्॥हित्_२.५३॥
यतः- यस्य यस्य हि यो भावस् तेन तेन हि तं नरम्। अनुप्रविश्य मेधावी क्षिप्रम् आत्म-वशं नयेत्॥हित्_२.५४॥
अंयच् च- को त्रेत्य् अहम् इति ब्रूयात् सम्यग् आदेशयेति च। आज्ञाम् अवितथां कुर्याद् यथा-शक्ति महीपतेः॥हित्_२.५५॥
अपरं च- अल्पेच्छुर् धृतिमान् प्राज्ञश् छायेवानुगतः सदा। आदिष्टो न विकल्पेत स राज-वसतिं वसेत्॥हित्_२.५६॥
करटको ब्रूते-कदाचित् त्वाम् अनवसर-प्रवेशाद् अवगम्यते स्वामी।
स चाह-अस्त्व् एवम्। तथाप्य् अनुजीविना स्वामि-सांनिध्यम् अवश्यं करणीयम्। यतः- दोष-भीतेर् अनारंभस् तत् कापुरुष-लक्षणम्। कैर् अजीर्ण-भयाद् भ्रातर् भोजनं परिहीयते॥हित्_२.५७॥
पश्य- आसन्नम् एव नृपतिर् भजते मनुष्यं विद्या-विहीनम् अकुलीनम् असंस्तुतं वा। प्रायेण भूमि-पतयः प्रमदा-लताश् च यः पार्श्वतो वसति तं परिवेष्टयंति॥हित्_२.५८॥
करटको ब्रूते-अथ तत्र गत्वा किं वक्ष्यति भवान्।
स आह-शृणु ! किम् अनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि।
करटको ब्रूते-किं तज् ज्ञान-लक्षणम्।
दमनको ब्रूते-शृणु- दूराद् अवेक्षणं हासः संप्रश्नेष्व् आदरो भृशम्। परोक्षेपि गुण-श्लाघा स्मरणं प्रिय-वस्तुषु॥हित्_२.५९॥
असेवके चानुरक्तिर् दानं स-प्रिय-भाषणम्। अनुरक्तस्य चिह्नानि दोषेपि गुण-संग्रहः॥हित्_२.६०॥
अंयच् च-- काल-यापनम् आशानां वर्धनं फल-खंडनम्। विरक्तेश्वर-चिह्नानि जानीयान् मतिमान् नरः॥हित्_२.६१॥
एतज् ज्ञात्वा यथा चायं ममायत्तो भविष्यति। तथा वदिष्यामि।
अपायसं दर्शनजां विपत्तिम् उपाय-संदर्शन-जां च सिढिम्। मेधाविनो नीति-विधि-प्रयुक्तां पुरः स्फुरंतीम् इव दर्शयंति॥हित्_२.६२॥
करटको ब्रूते-तथाप्य् अप्राप्ते प्रस्तावे न वक्तुम् अर्हसि, यतः-
अप्राप्त-कालं वचनं बृहस्पतिर् अपि ब्रुवन्। लभते बुढ्य्-अवज्ञानम् अवमानं च भारत॥हित्_२.६३॥
दमनको ब्रूते-मित्र ! मा भैषीः ! नाहम् अप्राप्तावसरं वचनं वदिष्यामि। यतः- आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च। अपृष्टो पि हितांवेषी ब्रूयात् कल्याण-भाषितम्॥हित्_२.६४॥
यदि च प्राप्तावसरेणापि मया मंत्रो न वक्तव्यस् तदा मंत्रित्वम् एव ममानुपपन्नम्। यतः-
कल्पयति येन वृत्तिं येन च लोके प्रशस्यते। स गुणस् तेन गुणिना रक्ष्यः संवर्धनीयश् च॥हित्_२.६५॥
तद् भद्र ! अनुजानीहि माम्। गच्छामि।
करटको ब्रूते-शुभम् अस्तु। शिवास् ते पंथानः। यथाभिलषितम् अनुष्ठीयताम् इति।
ततो दमनको विस्मित इव पिंगलक-समीपं गतः। अथ दूराद् एव सादरं राज्ञा प्रवेशितः साष्टांग-प्रणिपातं प्रणिपत्योपविष्टः। राजाह-चिराद् दृष्टो सि।
दमनको ब्रूते-यद्यपि मया सेवकेन श्रीमद्-देवपादानां न किंचित् प्रयोजनम् अस्ति, तथापि प्राप्त-कालम् अनुजीविना सांनिध्यम् अवश्यं कर्तव्यम् इत्य् आगतो स्मि। किं च-
दंतस्य निर्घर्षणकेन राजन् कर्णस्य कंडूयनकेन वापि। तृणेन कार्यं भवतीश्वराणां किम् अंग-वाक्-पाणि-मता नरेण॥हित्_२.६६॥
यद्यपि चिरेणावधीरितस्य देव-पादैर् मे बुढि-नाशः शक्यते, तद् अपि न शंकनीयम्। यतः-
कदर्थितस्यापि च धैर्य-वृत्तेर् बुढेर् विनाशो नहि शंकनीयः। अधः-कृतस्यापि तनूनपातो नाधः शिखा याति कदाचिद् एव॥हित्_२.६७॥
देव ! तत् सर्वथा विशेषज्ञेन स्वामिना भवितव्यम्। यतः-
मणिर् लुठति पादेषु काचः शिरसि धार्यते। यथैवास्ते तथैवास्तां काचः काचो मणिर् मणिः॥हित्_२.६८॥
अंयच् च- निर्विशेषो यदा राजा समं सर्वेषु वर्तते। तदोद्यम-समर्थानाम् उत्साहः परिहीयते॥हित्_२.६९॥
किं च- त्रिविधाः पुरुषा राजंन् उत्तमाधम-मध्यमाः। नियोजयेत् तथैवैतांस् त्रिविधेष्व् एव कर्मसु॥हित्_२.७०॥
यतः- स्थान एव निज्योज्यंते भृत्याश् चाभरणानि च। नहि चूडामणिः पादे नूपुरं शिरसा कृतम्॥हित्_२.७१॥
अपि च- कनक-भूषण-संग्रहणोचितो यदि मणिस् त्रपुणि प्रणिधीयते। न स विरौति न चापि न शोभते भवति योजयितुर् वचनीयता॥हित्_२.७२॥
अंयच् च- मुकुटे रोपिता काचश् चरणाभरणे मणिः। नहि दोषो मणेर् अस्ति किंतु साधोर् अविज्ञता॥हित्_२.७३॥
पश्य- बुढिमान् अनुरक्तो यम् अयं शूर इतो भयम्। इति भृत्य-विचारज्ञो भृत्यैर् आपूर्यते नृपः॥हित्_२.७४॥
तथा हि- अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश् च नारी च। पुरुष-विशेषं प्राप्ता भवंत्य् अयोग्याश् च योग्याश् च॥हित्_२.७५॥
अंयच् च- किं भक्तेनासमर्थेन किं शक्तेनापकारिणा। भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि॥हित्_२.७६॥
यतः- अवज्ञानाद् राज्ञो भवति मति-हीनः परिजनस् ततस् तत्-प्रामाण्याद् भवति न समीपे बुध-जनः। बुधैस् त्यक्ते राज्ये न हि भवति नीतिर् गुणवती विपन्नायां नीतौ सकलम् अवशं सीदति जगत्॥हित्_२.७७॥
अपरं च- जनं जनपदा नित्यम् अर्चयंति नृपार्चितम्। नृपेणावमतो यस् तु स सर्वैर् अवमंयते॥हित्_२.७८॥
किं च- बालाद् अपि गृहीतव्यं युक्तम् उक्तं मनीषिभिः। रवेर् अविषये किं न प्रदीपस्य प्रकाशनम्॥हित्_२.७९॥
पिंगलको वदत्-भद्र दमनक ! किम् एतत् ? त्वम् अस्मदीय-प्रधानामात्य-पुत्र इयंतं कालं यावत् कुतो पि खल-वाक्यान् नागतो सि। इदानीं यथाभिमतं ब्रूहि।
दमनको ब्रूते-देव ! पृच्छामि किंचित्। उच्यताम्। उदकार्थी स्वामी पानीयम् अपीत्वा किम् इति विस्मित इव तिष्ठति।
पिंगलको वदत्-भद्रम् उक्तं त्वया। किंत्व् एतद् रहस्यं वक्तुं काचिद् विश्वास-भूमिर् नास्ति। तथापि निभृतं कृत्वा कथयामि। शृणु, संप्रति वनम् इदम् अपूर्व-सत्त्वाधिष्ठितम् अतो स्माकं त्याज्यम्। अनेन हेतुना विस्मितो स्मि। तथा च श्रुतो मयापि महान् अपूर्व-शब्दः। शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम्।
दमनको ब्रूते-देव ! अस्ति तावद् अयं महान् भय-हेतुः। स शब्दो स्याभिर् अप्य् आकर्णितः। किंतु स किं मंत्री यः प्रथमं भूमि-त्यागं पश्चाद् युढं चोपविशति अस्मिन् कार्य-संदेहे भृत्यानाम् उपयोग एव ज्ञातव्यः। यतः-
बंधु-स्त्री-भृत्य-वर्गस्य बुढेः सत्त्वस्य चात्मनः। आपन्-निकष-पाषाणे नरो जानाति सारताम्॥हित्_२.८०॥
सिंहो ब्रूते-भद्र ! महती शंका मां बाधते।
दमनकः पुनर् आह स्वगतम्-अंयथा राज्य-सुखं परित्यज्य स्थानांतरं गंतुं कथं मां संभाषसे ? प्रकाशं ब्रूते-देव ! यावद् अहं जीवामि तावद् भयं न कर्तव्यम्। किंतु करटकादयो प्य् आश्वास्यंतां यस्माद् आपत्-प्रतीकार-काले दुर्लभह् पुरुष-समवायः।
ततस् तौ दमनक-करटकौ राज्ञा सर्वस्वेनापि पूजितौ भय-प्रतीकारं प्रतिज्ञाय चलितौ। करटको गच्छन् दमनकम् आह-सखे ! किं शक्त्य-प्रतीकारो भय-हेतुर् अशक्य-प्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथम् अयं महा-प्रसादो गृहीतः ? यतो नुपकुर्वाणो न कस्याप्य् उपायनं गृह्णीयाद् विशेषतो राज्ञः। पश्य- यस्य प्रसादे पद्मास्ते विजयश् च पराक्रमे। मृत्युश् च वसति क्रोधे सर्व-तेजोमयो हि सः॥हित्_२.८१॥
तथा हि- बालो पि नावमंतव्यो मनुष्य इति भूमिपः। महती देवता ह्य् एषा नर-रूपेण तिष्ठति॥हित्_२.८२॥
दमनको विहस्याह-मित्र ! तूष्णीम् आस्यताम्। ज्ञातं मया भय-कारणम्। बलीवर्द-नर्दितं तत्। वृषभाश् चास्माकम् अपि भक्ष्याः। किं पुनः सिंहस्य।
करटको ब्रूते-यद्य् एवं तदा किम् पुनः स्वामि-त्रासस् तत्रैव किम् इति नापनीतः।
दमनको ब्रूते-यदि स्वामि-त्रासस् तत्रैव मुच्यते तदा कथम् अयं महा-प्रसाद-लाभः स्यात्। अपरं च-
निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन। निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद् दधि-कर्णवत्॥हित्_२.८३॥
करटकः पृच्छति--कथम् एतत् ?
दमनकः कथयति-

कथा ३[सम्पाद्यताम्]

अस्त्य् उत्तर-पथेर्बुदशिखर-नाम्नि पर्वते दुर्दांतो नाम महा-विक्रमः सिंहः। तस्य पर्वत-कंदरम् अधिशयानस्य केसराग्रं कश्चिन् मूषिकः प्रत्यहं छिनत्ति। ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरांतर्गतं मूषिकम् अलभमानो चिंतयत्-
क्षुद्र-शत्रुर् भवेद् यस् तु विक्रमान् नैव लभ्यते। तम् आहंतुं पुरस्कार्यः सदृशस् तस्य सैनिकः॥हित्_२.८४॥इत्य् आलोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्ण-नामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्व-कंदरे स्थापितः। अनंतरं तद्-भयान् मूषिको पि विलान् न निःसरति। तेनासौ सिंहो क्षत-केशरः सुखं स्वपिति। मूषिक-शब्दं यदा यदा शृणोति, तदा तदा मांसाहार-दानेन तं बिडालं संवर्धयति।
आज्ञा-भंगो नरेंद्राणां ब्राह्मणानाम् अनादरः। पृथक् शय्या च नारीणाम् अशस्त्र-विहितो वधः॥हित्_२.८५॥
ततो देश-व्यवहारानभिज्ञः संजीवकः सभयम् उपसृत्य साष्टांग-पातं करटकं प्रणतवान्। तथा चोक्तम्-
मतिर् एव बलाद् गरीयसी यद्-अभावे करिणाम् इयं दशा। इति घोषयतीव डिंडिमः करिणो हस्तिपकाहतः क्वणन्॥हित्_२.८६॥
अथ संजीवकः साशंकम् आह-सेनापते ! किं मया कर्तव्यम्। तद् अभिधीयताम्।
करटको ब्रूते-वृषभ ! अत्र कानने तिष्ठसि। अस्मद्-देव-पादारविंदं प्रणय।
संजीवको ब्रूते-तद्-अभय-वाचं मे यच्छ। गच्छामि।
करटको ब्रूते-शृणु रे बलीवर्द ! अलम् अनया शंकया। यतः-
प्रतिवाचम् अदत्त केशवः शपमानाय न चेदि-भूभुजे। अनुहुंकुरुते घन-ध्वनिं न हि गोमायु-रुतानि केसरी॥हित्_२.८७॥
अंयच् च- तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणलानि सर्वतः। समुच्छ्रितान् एव तरून् प्रबाधते महान् महत्य् एव करोति विक्रमम्॥हित्_२.८८॥
ततस् तौ संजीवकं कियद् दूरे संस्थाप्य पिंगलक-समीपं गतौ। ततो राजा सादरम् अवलोकितौ प्रणम्योपविष्टौ। राजाह-त्वया स दृष्टः ?
दमनको ब्रूते-देव ! दृष्टः। किंतु यद् देवेन ज्ञातं तत् तथा। महान् एवासौ देवं द्रष्टुम् इच्छति। किंतु महाबलो सौ ततः सज्जीभूयोपविश्य दृश्यताम्। शब्द-मात्राद् एव न भेतव्यम्। तथा चोक्तम्-
शब्द-मात्रान् न भेतव्यम् अज्ञात्वा शब्द-कारणम्। शब्द-हेतुं परिज्ञाय कुट्टनी गौरवं गता॥हित्_२.८९॥
राजाह-कथम् एतत् ?
दमनकः कथयति-

कथा ४[सम्पाद्यताम्]

अस्ति श्री-पर्वत-मध्ये ब्रह्मपुराख्यं नगरम्। तच्-छिखर-प्रदेशे घंटाकर्णो नाम राक्षसः प्रतिवसतीति जन-प्रवादः श्रूयते। एकदा घंटाम् आदाय पलायमानः कश्चिच् चौरो व्याघ्रेण व्यापादितः। तत्-पाणि-पतिता घंटा वानरैः प्राप्ता। वानरास् तां घंटाम् अनुक्षणं वादयंति। ततो नगर-जनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घंटा-रवश् च श्रूयते। अनंतरं घंटाकर्णः कुपितो मनुष्यान् खादति घंटां च वादयतीत्य् उक्त्वा सर्वे जना नगरात् पलायिताः। ततः करालया नाम कुट्टंया विमृश्यानवरो यं घंटा-नादः। तत् किं मर्कटा घंटां वादयंतीति स्वयं विज्ञाय राजा विज्ञापितः-देव ! यदि कियद् धनोपक्षयः क्रियते, तदाहम् एनं घंटाकर्णं साधयामि।
ततो राजा तस्यै धनं दत्तम्। कुट्टंया मंडलं कृत्वा तत्र गणेशादि-पूजा-गौरवं दर्शयित्वा स्वयं वानर-प्रिय-फलांय् आदाय वनं प्रविश्य फलांय् आकीर्णानि। ततो घंटां परित्यज्य वानराः फलासक्ता बभूवुः। कुट्टनी च घंटां गृहीत्वा नगरम् आगता सर्व-जन-पूज्याभवत्। अतो हं ब्रवीमि-शब्द-मात्रान् न भेतव्यम् इत्य् आदि। ततः संजीवकम् आनीय दर्शनं कारितवंतौ। पश्चात् तत्रैव परम-प्रीत्या निवसति।
--ओ)०(ओ--
अथ कदाचित् तस्य सिंहस्य भ्राता स्तब्ध-कर्ण-नामा सिंहः समागतः। तस्यातिथ्यं कृत्वा सिंहम् उपवेश्य पिंगलकस् तद्-आहाराय पशुं हंतुं चलितः। अत्रांतरे संजीवको वदति-देव ! अद्य हत-मृगाणां मांसानि क्व ?
राजाह-दमनक-करटकौ जानीतः।
संजीवको ब्रूते-ज्ञायतां किम् अस्ति नास्ति वा ?
सिंहो विमृश्याह-नास्त्य् एव तत्।
संजीवको ब्रूते-कथम् एतावन् मांसं ताभ्यां खादितम् ?
राजाह-खादितं व्ययितम् अवधीरितं च। प्रत्यहम् एष क्रमः।
संजीवको ब्रूते-कथं श्रीमद्-देव-पादानां अगोचरेणैव क्रियते ?
राजाह-मदीयागोचरेणैव क्रियते।
अथ संजीवको ब्रूते-नैतद् उचितम्। तथा चोक्तम्-
नानिवेद्य प्रकुर्वीत भर्तुः किंचिद् अपि स्वयम्। कार्यम् आपत्-प्रतीकाराद् अंयत्र जगती-पते॥हित्_२.९०॥
अंयच् च- कमंडलूपमो मात्यस् तनु-त्यागी बहु-ग्रहः। नृपते किंक्षणो मूर्खो दरिद्रः किंवराटकः॥हित्_२.९१॥
स ह्य् अमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत्। कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः॥हित्_२.९२॥
किं चार्थैर् न कुलाचारैः सेवताम् एति पूरुषः। धन-हीनः स्व-पत्ंयापि त्यज्यते किं पुनः परैः॥हित्_२.९३॥
एतच् च राज्ञः प्रधानं दूषणम्-
अतिव्ययो नपेक्षा च तथार्जनम् अधर्मतः। मोषणं दूर-संस्थानां कोष-व्यसनम् उच्यते॥हित्_२.९४॥
यतः- क्षिप्रम् आयतम् अनालोच्य व्ययमानः स्व-वाञ्छया। परिक्षीयत एवासौ धनी वैश्रवणोपमः॥हित्_२.९५॥
स्तब्धकर्णो ब्रूते-शृणु भ्रातः चिराश्रिताद् एतौ दमनक-करटकौ संधि-विग्रह-कार्याधिकारिणौ च कदाचिद् अर्थाधिकारे न नियोक्तव्यौ। अपरं च नियोग-प्रस्तावे यन् मया श्रुतं तत् कथ्यते।
ब्राह्मणः क्षत्रियो बंधुर् नाधिकारे प्रशस्यते। ब्राह्मणः सिढम् अप्य् अर्थं कृच्छ्रेणापि न यच्छति॥हित्_२.९६॥
नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम्। सर्वस्वं ग्रसते बंधुर् आक्रम्य ज्ञाति-भावतः॥हित्_२.९७॥
अपराधेपि निःशंको नियोगी चिर-सेवकः। स स्वामिनम् अवज्ञाय चरेच् च निरवग्रहः॥हित्_२.९८॥
उपकर्ताधिकार-स्थः स्वापराधं न मंयते। उपकारं ध्वजी-कृत्य सर्वम् एव विलुंपति॥हित्_२.९९॥
उपंशु-क्रीडितो मात्यः स्वयं राजायते यतः। अवज्ञा क्रियते तेन सदा परिचयाद् ध्रुवम्॥हित्_२.१००॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. हितोपदेशम्
    1. मंगलाचरणम् १-४६
    2. प्रथम: कथा-संग्रहः - मित्र-लाभः १-१००
    3. प्रथम: कथा-संग्रहः - मित्र-लाभः १०१-२०१
    4. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १-१००
    5. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १०१-१८४
    6. तृतीयः कथा-संग्रहः - विग्रहः १-१००
    7. तृतीयः कथा-संग्रहः - विग्रहः १०१-१५१
    8. चतुर्थः कथा-संग्रहः - संधिः १-१००
    9. चतुर्थः कथा-संग्रहः - संधिः १०१-१४३
  2. हितोपदेश (hindi wikipedia)
  3. पञ्चतन्त्रम्
  4. कथासरित्सागर
  5. सिंहासनद्वात्रिंशति

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=हितोपदेशम्_03&oldid=17777" इत्यस्माद् प्रतिप्राप्तम्