हनूमत्स्तुतिः

विकिस्रोतः तः
हनूमत्स्तुतिः
हनूमान्स्तोत्राणि
[[लेखकः :|]]

हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः ।
रामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ १॥

उदधिक्रमणश्चैव सीताशोकविनाशनः ।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ २॥

एवं द्वादश नामानि कपीन्द्रस्य महात्मनः ।
स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् ॥ ३॥

तस्य सर्व भयं नास्ति रणे च विजयी भवेत् ।
राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥ ४॥
           ॥ ॐ तत्सत् ॥

"https://sa.wikisource.org/w/index.php?title=हनूमत्स्तुतिः&oldid=32426" इत्यस्माद् प्रतिप्राप्तम्