स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/विषयानुक्रमणिकाका

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

पूर्ववर्ती पृष्ठः (अध्यायाः १६ - १९)

अथ प्रभासखण्डे द्वितीयं वस्त्रापथ ( गिरनार) क्षेत्रमाहात्म्यम् ।। (७-२) ।।

विषयानुक्रमणिका

 
१ दामोदरमाहात्म्यवर्णने कस्यचिद्गजसंज्ञकस्य राज्ञो गृहे बहूनामृषीणामागमनम्, तत्र गजेन पृष्टैर्ऋषिभिर्गजराजाय सर्वतीर्थक्षेत्रमाहात्म्यकथनम्, नाममाहात्म्य-वर्णनम्, दामोदरमाहात्म्यवर्णनम् - २०० १

 
२ भवशब्दस्य व्युत्पत्त्यर्थनिदर्शनम्, देवैर्भवस्थापनवर्णनम्, भवमाहात्म्यवर्णनम्... २०२ २

 
३ स्वर्णरेखानदीमाहात्म्यवर्णनम्, ह्मकुम्भब्रह्मेश्वरकालमेघदामोदरकालिकाभवेन्द्रेश्वररैवतोज्जयंत कुंभीश्वर भीमेश्वरादि वस्त्रापथक्षेत्रस्थप्रवरतीर्थानुकीर्तनम् ... २०२ २

 
४ दुन्नावल्लिहृद्गिरिस्थानमाहात्म्यवर्णनम्- ... ..- - ... २०३ १

 
५ गङ्गेश्वरमाहात्म्यवर्णनम् .. २०३ १

 
६ चक्रतीर्थयात्राविधिवर्णनम्, मृगवत्प्लवनकारिबालादर्शनं कृतमिति केनचिद्वनपालेन भोजराजाय कथनम्, तच्छ्रुत्वा तुष्टेन भोजेन तस्मै वनपालाय बहुधनदानम्, ततस्तेन वनपालेन सह तत्र वने गत्वा भोजेन तां मृगवक्त्रां बालां गृहीत्वा स्वगृहे गमनम्, ततो भोजेन तस्यै बालायै मानुष्यशरीरत्वमृगवक्त्रत्वशापककारणे पृष्टे तयाऽकथने भोजेन विप्रेभ्यः प्रश्नकरणम्, ततः सारस्वतमहर्षिसंस्कतपुरोडाश-प्राशनसमुपलब्ध स्पष्टवाक्प्रसरमृगानना कथितोभयप्राक्सप्तजन्मवृत्तान्तवर्णनम, २०३ १ ७ मृगाननाभोजराजसंवादे स्वोत्पत्तिवर्णनप्रसंग उद्दालकर्षेर्मूत्रसर्जनाय वनान्तरे गमनम्, तत्र तस्य वीर्यबिन्दुपतनम्, तत्रैकया मृग्योद्दालकवीर्यबिंदुप्राशनम्, तत उद्दालकान्मृग्यां मृगाननायाः स्वस्या जन्मेति भोजाय मृगाननया कथनम्, द्वार-वतीकुरुक्षेत्रादिबहुतीर्थक्षेत्रमाहात्म्यवर्णनम्, स्वर्णरेखायां मृगाननायाः पूर्वजन्म-मृगमुखप्रक्षेपणेन दिव्यमुखत्वप्राप्त्युत्तरं भोजनृपतिपरिणयवृत्तान्तपूर्वकं स्वर्ण-रेखामाहात्म्यवर्णनम् ... .. ... ... ... ... २०६ १

 
८ सारस्वतभोजसंवादे ब्रह्मरुद्रविवादे विष्णुवचनेन ब्रह्मकृतरुद्रप्रसादनवर्णनम्. २०७ १

 
९ ब्रह्मणे विष्णुना दक्षयज्ञकथादिवर्णने दक्षयज्ञविध्वंसवर्णनम्, पार्वतीजननवि-वाहादिवर्णनम् त तत एकस्मिन्समयेऽन्तर्धानं गतं शंकरमदृष्ट्वा सिंहारूढया पार्वत्या समं विष्ण्वादिदेवानां शिवान्वेषणाय गमनम्, ततः प्रभासे वस्त्रापथ-क्षेत्रे तैः शंकरस्य दर्शनम्, विष्ण्वाद्याज्ञया शंकरेण भवेति नाम्ना स्वस्या मूर्ते--स्तत्र वस्त्रापथक्षेत्रे स्थापनम्, भवोत्पत्तिमाहात्म्यवर्णनम्... २०७ २
 

१० वस्त्रापथक्षेत्रयात्रोत्सुकस्य भोजभूपस्य सारस्वतमुनिकृतोपदेशवर्णनम्.... २१२ २

 
११ वस्त्रापथक्षेत्रयात्राक्रमविधानवर्णनम्.... ...... ... २१३ १
 

१२ श्राद्धकरणे गजच्छायादिदिनमाहात्म्यवर्णनम्, यात्राकारिभिस्त्याज्यदोषादिवर्णनम्, भीमेश्वरस्कान्दरामेश्वराद्यन्यान्यतीर्थेषु स्नानदानादिफलवर्णनम्, तीर्थस्मरण-फलकथनम्, यात्राविधिवर्णनम् ... ... ... ...... २१४ १

 
१३ हरिहरपूजाफलकथनम्, तत्र स्नानदानजपहोमदेवद्विजार्चनफलकथनम्, धूममार्गार्चि-र्मार्गवर्णनम्, श्राद्धदानादिमाहात्म्यवर्णनम् ..... -. ... .. २१५ १

 
१४ वामनपुरे पुत्रशोकाभिसंतप्तेन वसिष्ठेन स्वर्णरेखातटे तपस्तप्त्वा शिवप्रसादेन तत्रैव लिंगस्थापनम्, ततो वामनस्थापितसोमनाथमाहात्म्यवर्णने बलिविद्रावितै- र्देवैर्विष्णुं प्रति शरणगमनम्, ततो विष्णुना देवकार्यार्थं वामनरूपं धृत्वा बलिसभायां पादत्रयभूमिग्रहणेन बलिनिग्रहकरणोत्तरं सोमनाथमाराध्य लिंगस्थापनम्, सोमेश्वरोत्पत्तिवर्णनम् .... .. ........ २१६ १
 

१५ वामनस्य दामोदरदर्शनं ग्रहीतुं रैवतकारण्ये गमनम्, तत्र नृसिंहं संपूज्य स्नान-दानादिकं विधाय तत उत्तरं दामोदरदर्शनाय वस्त्रापथक्षेत्रे गमनम्, तत्र जागरणं कृत्वा सिद्धिं प्रति गमनम्, दामोदराग्रे जागरस्य माहात्म्यवर्णनम् .. २१८ १
 

१६ ततो वामनस्य यात्रार्थं गहनेऽरण्ये गमनम्, अनेकतीर्थक्षेत्रदर्शनोत्तरं मार्गे शिवस्य दर्शनम्, शिववामनसंवादवर्णनम्, तत्र शिवेन वामनायेन्द्रेश्वरमाहात्म्य-कथनम्, शिवरात्रिमाहात्म्यवर्णनम्, शिवरात्रिव्रतविधिकथनं च.... ... २१९ २

 
१७ भृगुणा शप्तं देवं दृष्ट्वा देवोऽपि वामनावताररूपेण बलिनिग्रहं करिष्यतीति ज्ञात्वा नारदस्य बलेरग्रे गमनम्, तत्र नारदेन बलये त्वत्तोऽपि देवेन्द्रलक्ष्मी- रधिकतरेति निवेद्य बलेर्मनः क्षोभयित्वा समुद्रमन्थनसमये देवकृतवञ्चनस्यापि बलये स्मरणं कारयित्वा स्वर्गं प्रत्येत्य शक्रायापि नारदेन तथैव कथनम्, एवं मिथः कलहा-दिना परस्परं संक्षोभ्य नारदेन बलये राजनीतिधर्मशास्त्रादिव्यवहारकथनम्, रैवतकपर्वतोत्पत्तिवर्णने मेरोर्दक्षिणस्थे कुमुदपर्वते विष्णुमन्दिरे स्थितं देवं द्रष्टुं विष्णोरहरहरागमनम्, कुमुदेन तत्रैव कुमुदपर्वते हरिहरयोः स्थापनम्, कुमुदपर्वताय हरिहराभ्यां वरप्रदानम्, ततो रैवतनामकपञ्चममन्वन्तर ऋतवा-गृषितो मूढपुत्रोत्पत्तावृतवाग्गर्गयोः संवादे रेवत्यृक्षजनितस्वपुत्रस्य मौढ्यदोषं श्रुत्वा क्रुद्धेनर्तवाचर्षिणा स्वदृष्टिनिक्षेपेण रेवत्यृक्षस्याधः पातनम्, ततः कुमुद-पर्वते रेवत्यृक्षस्य पतनम्, तेन कुमुदाद्रे रैवतकेतिनाम्ना प्रसिद्धिवर्णनम्, ततो रैवतकगिरे रेवतीनामककन्योत्पत्तिवर्णनम्, रेवत्या प्रमुञ्चराजर्षिणा पालन-करणम्, अग्निवचनात्प्रमुञ्चेन दुर्दमराजाय रेवतीप्रदानकरणम्, रेवतीकुण्डे स्नानेन देवतेति ख्यातपुत्रस्य जन्म, वैष्णवपूज्यशिवालक्ष्मीवृक्षमाहात्म्यवर्णनम्, नारदेन बलये वैष्णवव्रतजागरादिविधिकथनम्, तथैव बलिना वैष्णवव्रतजाग-रादिकं कृत्वा सञ्चलितोत्पातनाशनाय शुक्रानुज्ञया ब्राह्मणानाहूय यज्ञसमारंभ-करणम्, बलियज्ञप्रभाववर्णनम् ... ... .-.. - ... २२२ २

 
१८ प्राणायामादिप्रकारकथनम्, अष्टधा प्रकृत्युत्पत्तिवर्णनम्, सांख्यमतेन पञ्चविंशति-तत्त्वाख्यानम्, भवध्यानप्रकारकथनम्, भवसंनिधौ स्थितस्य वामनस्याग्रे नार-दागमनम्, नारदेन वामनाय बलियज्ञादिसर्ववृत्तान्तकथनम्, वामनेन नारदस्य वृथाकलहकारित्वस्वभावेन निर्भर्त्सनम्, ततो नारदेन कल्पान्तस्थितिवर्णनम्, नारदेन वामनाय हिरण्याक्षादिवधवृत्तकथनम्, ततो नारदवचनाद्वामनेन बलिनिग्रहाय बलेरग्रमेत्य शुक्रतिरस्कृतमपि बलिं पादत्रयभूमिं याचित्वा ततः स्वात्मवृद्ध्याऽखिलब्रह्माण्डं व्याप्य बलेर्निग्रहकरणम् ... ... ... २२८ २

 
१९ सारस्वतभोजसंवादे बलिनिग्रहोत्तरं बलेर्द्वारे विष्णोरवस्थानम्, वस्त्रापथक्षेत्रमाहाम्यश्रवणफलश्रुतिकथनम्-. - ... -.. - ... २३४ १

 
इति प्रभासखण्डे द्वितीयं वस्त्रापथक्षेत्रमाहात्म्यम् ।। (७-२) ।।




आगामी पृष्ठः ( अर्बुदखण्डे अध्यायाः १ - ३०)