स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०१
स्कन्दपुराणम् अध्यायः १ वेदव्यासः |
अध्यायः २ → |
॥अथ श्रीस्कांदे महापुराणे प्रथमे माहेश्वरखण्डे कौमारिकाखण्डः प्रारभ्यते॥ २ ॥
श्रीगणेशाय नमः॥
ॐ नमो बृहस्पतये॥
नमतस्मै ब्रह्मणे॥
विष्णवे नमः॥
॥श्रीमुनय ऊचुः॥
दक्षिणार्णवतीरेषु यानि तीर्थानि पंच च॥
तानि ब्रूहि विशालाक्ष वर्णयंत्यति तानि च॥ १.१ ॥
सर्वतीर्थफलं येषु नारदाद्य वदंति च॥
तेषां चरितमाहात्म्यं श्रोतुमिच्छामहे वयम्॥ १.२ ॥
॥उग्रश्रवा उवाच॥
श्रृणुध्वचत्यद्भुतपुण्यसत्कथं कुमारनाथस्य महाप्रभावम्॥
द्वैपायनो यन्मम चाह पूर्वं हर्षाबुरोमोद्गमचर्चितांगः॥ १.३ ॥
कुमारगीता गाथात्र श्रूयतां मुनिसत्तमाः॥
या सर्वदेवैर्मुनिभिः पितृभिश्च प्रपूजिता॥ १.४ ॥
मध्वाचारस्तं भतीर्थं यो निषेवेत मानवः॥
नियतं तस्य वासः स्याद्ब्रह्मलोके यथा मम॥ १.५ ॥
ब्रह्मलोकाद्विष्णुलोकस्तस्मादपि शिवस्य च॥
पुत्राप्रियत्वात्तस्यापि गुहलोको महत्तमः॥ १.६ ॥
अत्राश्चर्यकथा या च फाल्गुनस्य पुरेरिता॥
नारदेन मुनिश्रेष्ठास्तां वो वक्ष्यामि विस्तरात्॥ १.७ ॥
पुरा निमित्ते कस्मिंश्चित्करीटी मणिकूटतः॥
समुद्रे दक्षिणेऽभ्यागात्स्नातुं तीर्थानि पंच च॥ १.८ ॥
वर्जयंति सदा यानि भयात्तीर्थानि तापसाः॥
कुमारेशस्य पूर्वं च तीर्थमस्ति मुनेः प्रियम्॥ १.९ ॥
स्तंभेशस्य द्वितीयं च सौभद्रस्य मुनेः प्रियम्॥
बर्करेश्वरमन्यच्च पौलोमीप्रियमुत्तमम्॥ १.१० ॥
चतुर्थं च महाकालं करंधम नृपप्रिययम्॥
भरद्वाजस्य तीर्थं च सिद्धेशाख्यं हि पंचमम्॥ १.११ ॥
एतानि पंच तीर्थानि ददर्श कुरुपुंगवः॥
तपस्विभिर्वर्जितानि महापुण्यानि तानि च॥ १.१२ ॥
दृष्ट्वा पार्श्वे नारदीयानपृच्छत महामुनीन्॥
तीर्थानीमानि रम्याणि प्रभावाद्भुतवंति च॥ १.१३ ॥
किमर्थं ब्रूत वर्ज्यंते सदैव ब्रह्मवादिभिः॥
॥तापसा ऊचुः॥
ग्राहः पंच वसंत्येषु हरंति च तपोधनान्॥ १.१४ ॥
अत एतानि वर्ज्यंते तीर्थानि कुरुनंदन॥
इति श्रुत्वा महाबाहुर्गमनाय मनो दधे॥ १.१५ ॥
ततस्तं तापसाः प्रोचुत्हंतुं नार्हसि फाल्गुन॥
बहवो भक्षिता ग्राहै राजानो मुनयस्तथा॥ १.१६ ॥
तत्त्व द्वारशवर्षाणि तीर्थानामर्बुदेष्वपि॥
स्नातः किमेतैस्तीर्थैस्ते मा पतंगव्रतो भव॥ १.१७ ॥
॥अर्जुन उवाच॥
यदुक्तं करुणासारैः सारं किं तदिहोच्यताम्॥
धर्मार्थी मनुजो यश्च न स वार्यो महात्मभिः॥ १.१८ ॥
धर्मकामं हि मनुजं यो वारयति मंदधीः॥
तदाश्रितस्य जगतो निःश्वासैर्भस्मसाद्भवेत्॥ १.१९ ॥
यज्जीवितं चाचिरांशुसमानक्षणभंगुरम्॥
तच्चेद्धर्मकृते याति यातु दोषोऽस्ति को ननु॥ १.२० ॥
जीवितं च धनं दाराः पुत्राः क्षेत्रगृहाणि च॥
यान्ति येषआं धर्मकृते त एव भुवि मानवाः॥ १.२१ ॥
॥तापसा ऊचुः॥
एवं ते ब्रुवतः पार्थ दीर्घमायुः प्रवर्धताम्॥
सदा धर्मे रतिर्भूयाद्याहि स्वं कुरु वांछितम्॥ १.२२ ॥
एवमुक्तः प्रणम्यैतानाशीर्भिरभिसंस्तुतः॥
जगाम तानि तीर्थानि द्रष्टुं भरतसत्तमः॥ १.२३ ॥
ततः सौभद्रमासाद्य महर्षेस्तीर्थुमुत्तमम्॥
विगाह्य तरसा वीरः स्नानं चक्रे परंतपः॥ १.२४ ॥
अथ तं पुरुषव्याघ्रमंतर्जलचरो महान्॥
निजग्राह जले ग्राहः कुंतीपुत्रं धनंजयम्॥ १.२५ ॥
तमादायैव कौतेयो विस्फुरंतं जलेचरम्॥
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः॥ १.२६ ॥
उद्धृतश्चैव तु ग्राहः सोऽर्जुनेन यशस्विना॥
बभूव नारी कल्याणी सर्वाभरणभूषिता॥ १.२७ ॥
दीप्यमानशिखा विप्रा दिव्यरूपा मनोरमा॥
तदद्भुतं महद्दृष्ट्वा कुंतीपुत्रो धनंजयः॥ १.२८ ॥
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत्॥
का वै त्वमसि कल्याणि कुतो वा जलचारिणी॥ १.२९ ॥
किमर्थं च महात्पापमिदं कृतवती ह्यसि॥
॥नार्युवाच॥
अप्सरा ह्यस्मि कौतेय देवारण्यनिवासिनी॥ १.३० ॥
इष्टा धनपतेर्नित्यं वर्चानाम महाबल॥
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः॥ १.३१ ॥
ताभिः सार्धं प्रयातास्मि देवराजनिवेशनात्॥
ततः पश्यामहे सर्वा ब्राह्मणं चानिकेतनम्॥ १.३२ ॥
रूपवंतमधीयानमेकमेकांतचारिणम्॥
तस्य वै तपसा वीर तद्वनं तेजसावृतम्॥ १.३३ ॥
आदित्य इव तं देशं कृत्स्नमेवान्व भासयत्॥
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम्॥ १.३४ ॥
अवतीर्णास्ति तं देशं तपोविघ्नचिकीर्षया॥
अहं च सौरभेयी च सामेयी बुद्बुदालता॥ १.३५ ॥
यौगपद्येन तं विप्रमभ्यगच्छाम भारत॥
गायंत्यो ललमानाश्च लोभयंत्यश्च तं द्विजम्॥ १.३६ ॥
स च नास्मासु कृतवान्मनोवीरः कथंचन॥
नाकंपत महातेजाः स्थितस्तपसि निर्मले॥ १.३७ ॥
सोऽशपत्कुपितोऽस्मासु ब्राह्मणः क्षत्रियर्षभ॥
ग्राहभूता जले यूयं भविष्यथ शतं समाः॥ १.३८ ॥
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम॥
आयाताः शरणं विप्रं तपोधनमकल्मषम्॥ १.३९ ॥
रूपेण वयसा चैव कंदर्पेण च दर्पिताः॥
अयुक्तं कृतवत्यः स्म क्षंतुमर्हसि नो द्विज॥ १.४० ॥
एष एव वधोऽस्माकं स पर्याप्तस्तपोधन॥
यद्वयं शंसितात्मानं प्रलोब्धुं त्वामुपागताः॥ १.४१ ॥
अवध्याश्च स्त्रियः सृष्टा मन्यंते धर्मचिंतकाः॥
तस्माद्धर्मेण धर्मज्ञ एष वादो मनीषिणाम्॥ १.४२ ॥
शरणं च प्रपन्नानां शिष्टाः कुर्वंति पालनम्॥
शरण्यं त्वां प्रपन्नाः स्मस्तस्मात्त्वं क्षंतुमर्हसि॥ १.४३ ॥
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत्॥
प्रसादं कृतवाञ्छूररविसोमसमप्रभः॥ १.४४ ॥
॥ब्राह्मण उवाच॥
भवतीनां चरित्रेण परिमुह्यामि चेतसि॥
अहो धार्ष्ट्यमहो मोहो यत्पापाय प्रवर्तनम्॥ १.४५ ॥
मस्त कस्थायिनं मृत्युं यदि पश्येदयं जनः॥
आहारोऽपि न रोचेत किमुताकार्यकारिता॥ १.४६ ॥
आहो मानुष्यकं जन्म सर्वजन्मसु दुर्लभम्॥
तृणवत्क्रियते कैश्चिद्योषिन्मूढैर्दुराधरैः॥ १.४७ ॥
तान्वयं समपृच्छामो जनिर्वः किंनिमित्ततः॥
को वा लाभो विचार्यैतन्मनासा सह प्रोच्यताम्॥ १.४८ ॥
न चैताः परिनिन्दामो जनिर्यार्भ्यः प्रवर्तते॥
केवलं तान्विनिंदामो ये च तासु निरर्गलाः॥ १.४९ ॥
यतः पद्मभुवा सृष्टं मिथुनं विश्ववृद्धये॥
तत्तथा परिपाल्यं वै नात्र दोषोऽस्ति कश्चन॥ १.५० ॥
या बांधवैः प्रदत्ता स्याद्वह्निद्विजसमागमे॥
गार्हस्थ्यपालनं धन्यं तया साकं हि सर्वदम्॥ १.५१ ॥
यथाप्रकृति पुंयोमो यत्नेनापि परस्परम्॥
साध्यामानो गुणाय स्यादगुणायाप्यसाधितः॥ १.५२ ॥
एवं यत्नात्साध्यमानं स्वकं गार्हस्थ्यमुत्तमम्॥
गुणाय महते भूयादगुणायाप्यसाधितम्॥ १.५३ ॥
पुरे पंचमुखे द्वाःस्थ एकादशभटैर्युतः॥
साकं नार्या बह्वपत्यः स कथं स्यादचेतनः॥ १.५४ ॥
यश्चस्त्रिया समायोगः पंचयज्ञादिकर्मभिः॥
विश्वोपकृतये सृष्टा मूढैर्हा साध्यतेऽन्यथा॥ १.५५ ॥
अहो श्रृणुध्वं नो चेद्वः शुश्रूषा जायते शुभा॥
तथापि बाहुमुद्धृत्य रोरूयामः श्रृणोति कः॥ १.५६ ॥
षड्धातुसारं तद्वीर्यं समानं परिहाय च॥
विनिक्षेपे कुयोनौ तु तस्येदं प्रोक्तवान्यमः॥ १.५७ ॥
प्रथमं चौषधीद्रोग्धा आत्मद्रोग्धा ततः पुनः॥
पितृद्रोग्धा विश्वद्रोग्धा यात्यंधं शाश्वतीः समाः॥ १.५८ ॥
मनुष्यं पितरो देवा मुनयो मानवास्तथा॥
भृतानि चोपजीवंति तदर्थं नियतो भवेत्॥ १.५९ ॥
वचसा मनसा चैव जिह्वया करश्रोत्रकैः॥
दांतमाहुर्हि सत्तीर्थं काकतीर्थमतः परम्॥ १.६० ॥
काकप्राये नरे यस्मिन्रमंते तामसा जनाः॥
हंसोऽयमिति देवानां कोऽर्थस्तेन विचिंत्यताम्॥ १.६१ ॥
एवंविधं हि विश्वस्य निर्माणं स्मरतोहृदि॥
अपि कृते त्रिलोक्याश्च कथं पापे रमेन्मनः॥ १.६२ ॥
तदिदं चान्यमर्त्यानां शास्त्रदृष्टमहो स्त्रियः॥
यमलोके मया दृष्टं मुह्ये प्रत्यक्षतः कथम्॥ १.६३ ॥
भवतीषु च कः कोपो ये यदर्थे हि निर्मिताः॥
ते तमर्थं प्रकुर्वंति सत्यमस्तुभमेव च॥ १.६४ ॥
शतं सहस्रं विश्वं च सर्वमक्षय वाचकम्॥
परिमाणं शतं त्वेव नैतदक्षय्यवाचकम्॥ १.६५ ॥
यदा च वो ग्राहभूता गृह्णतीः पुरुषाञ्जले॥
उत्कर्षति जलात्कश्चित्स्थले पुरुषसत्तमः॥ १.६६ ॥
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ॥
अनृतं नोक्तपूर्वं मे हसतापि कदाचन॥
कल्याणस्य सुपृक्तस्य शुद्धिस्तद्वद्वरा हि वः॥ १.६७ ॥
॥नार्युवाच॥
ततोभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम्॥ १.६८ ॥
अचिंतयामापसृत्य तस्माद्देशात्सुदुःखिताः॥
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्॥ १.६९ ॥
समागच्छेम यो नः स्वं रूपमापादयेत्पुनः॥
ता वयं चिंतयित्वेह मुहूर्तादिव भारत॥ १.७० ॥
दृष्टवत्यो महाभागं देवर्षिमथ नारदम्॥
सर्वा दृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्॥ १.७१ ॥
अभिवाद्य च तं पार्थ स्थिताः स्मो व्यथिताननाः॥
स नोऽपृच्छद्दृःखमूलमुक्तवत्यो वयं च तम्॥ १.७२ ॥
श्रुत्वा तच्च यथातत्त्वमिदं वचनमब्रवीत्॥
दक्षिणे सागरेऽनूपे पंच तीर्थानि संतिवै॥ १.७३ ॥
पुण्यानि रमणीयानि तानि गच्छत मा चिरम्॥
तत्रस्थाः पुरुषव्याघ्रः पांडवो वो धनंजयः॥ १.७४ ॥
मोक्षयिष्यति शुद्धात्मा दुःखा दस्मान्न संशयः॥
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः॥ १.७५ ॥
त्वमिदं सत्यवचनं कर्तुमर्हसि पांडव॥
त्वद्विधानां हि साधूनां जन्म दीनोपकारकम्॥ १.७६ ॥
श्रुत्वेति वचनं तस्याः सस्नौ तीर्थेष्वनुक्रमात्॥
ग्राहभूताश्चोज्जहार यथापूर्वाः स पांडवः॥ १.७७ ॥
ततः प्रणम्य ता वीरं प्रोच्यमाना जयाशिषः॥
गंतुं कृताभिलाषाश्च प्राह पार्थो धनंजयः॥ १.७८ ॥
एष मे हृदि संदेहः सुदृढः परिवर्तते॥
कस्माद्वोनारदमुनिरनुजज्ञे प्रवासितुम्॥ १.७९ ॥
सर्वः कोऽप्यतिहीनोऽपि स्वपूज्यस्यार्थसाधकः॥
स्वपूज्यतीर्थेष्वावासं प्रोक्तवान्नारदः कथम्॥ १.८० ॥
तथैव नवदुर्गासु सतीष्वतिबलासु च॥
सिद्धेशे सिद्धगणपे चापि वोऽत्र स्थितिः कथम्॥ १.८१ ॥
एकैक एषां शक्तो हि अपि देवान्निवारितुम्॥
तीर्थसंरोधकारिण्यः सर्वा नावारयत्कथम्॥ १.८२ ॥
इति चिंतयते मह्यं भृशं दोलायते मनः॥
महन्मे कौतुकं जातं सत्यं वा वक्तुमर्हथ॥ १.८३ ॥
॥अप्सरस ऊचुः॥
योग्यं पृच्छसि कौन्तेय पुनः पश्योत्तरां दिशम्॥ १.८४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे पार्थेन पञ्चाप्सरः समुद्धरणंनाम प्रथमोऽध्यायः॥ १ ॥ छ ॥