सौन्दरनन्दकाव्यम्/षष्ठः सर्गः

विकिस्रोतः तः
← पञ्चमः सर्गः सौन्दरनन्दकाव्यम्
षष्ठः सर्गः
[[लेखकः :|]]
सप्तमः सर्गः →


सर्ग ६

ततो हृते भर्तरि गौरवेण प्रीतौ हृतायां अरतौ कृतायां ।
तत्रैव हर्म्योपरि वर्तमाना न सुन्दरी सैव तदा बभासे ।। ६.१ ।।

सा भर्तुरभ्यागमनप्रतीक्षा गवाक्षं आक्रम्य पयोधराभ्यां ।
द्वारोन्मुखी चलयोक्त्रका ललम्बे मुखेन तिर्यङ्नतकुण्डलेन ।। ६.२ ।।

विलम्भऽरा चलयोक्त्रका सा तस्माद्विमानाद्विनता चकाशे ।
तपःक्सयादप्सरसां वरेव च्युतं विमानात्प्रियं ईक्षमाणा ।। ६.३ ।।

सा खेदसंस्विन्नललाटकेन निश्वासनीष्पीतविशेषकेण ।
चिन्ताचलाक्षेण मुखेन तस्थौ बर्तारं अन्यत्र विशङ्कमाना ।। ६.४ ।।

ततश्चिरस्थानपर्श्रमेञ स्थितैव पर्यङ्कतले पपात ।
तिर्यक्च शिश्ये प्रविकीर्णहारा सपादुकैकार्थविलम्बपादा ।। ६.५ ।।

अथात्र का चित्प्रमदा सबाष्पां तां दुःखितां द्रष्टुं अनीप्समाना ।
प्रासादसोपानतलप्रणादं चकार पद्भ्यां सहसा रुदन्ती ।। ६.६ ।।

तस्याश्च सोपानतलप्रणादं श्रुतैव तूर्णं पुनरुत्पपात ।
प्रीत्या प्रसक्तैव च संजहर्ष प्रियोपयानं परिशङ्कमाना ।। ६.७ ।।

सा त्रासयन्ती वलभीपुटस्थान्पारावतान्नूपुरनिस्वनेन ।
सोपानकुक्षिङ्प्रससार हर्षाद्भ्रष्टं दुकूलान्तं अचिन्तयन्ती ।। ६.८ ।।

तां अङ्गनां प्रेक्ष्य च विप्रलब्धा निश्वस्य भूयः शयनं प्रपेदे ।
विवर्णवक्त्रा न रराज चाशु विवर्णचन्द्रेव हिमागमे द्यौः ।। ६.९ ।।

सा दुःखिता भर्तुरदर्शनेन कामेन कोपेन च दह्यमाना ।
कृत्वा करे वक्त्रं उपोपविष्टा चिन्तानदीं शोकजलां ततार ।। ६.१० ।।

तस्या मुखं पद्मसपत्नभूतं पाणौ स्थितङ्पल्लवरागताम्रे ।
छायामयस्याम्भसि पङ्कजस्य बभौ नतं पद्मं इवोपरिष्टात् ।। ६.११ ।।

सा स्त्रीस्वभावेन विचिन्त्य तत्तद्दृष्टानुरागेऽभिमुखेऽपि पत्यौ ।
धर्माश्रिते तत्त्वं अविन्दमाना संकल्प्य तत्तद्विललाप तत्तत् ।। ६.१२ ।।

एष्याम्यनाश्यानविशेषकायां त्वयीति कृत्वा मयि तां प्रतिज्ञां ।
कस्मान्नु हेतोर्दयितप्रतिज्ञः सोऽद्य प्रिय मे वितथप्रतिज्ञः ।। ६.१३ ।।

आर्यस्य साधोः करुणात्मकस्य मन्नित्यभीरोरतिदक्षिणस्य ।
कुतो विकारोऽयं अभूतपूर्वः स्वेनापरागेण ममापचारात् ।। ६.१४ ।।

रतिप्रियस्य प्रियवर्तिनो मे प्रियस्य नूनं हृदयं विरक्तं ।
तथापि रागो यदि तस्य हि स्यान्मच्चित्तरक्षी न स नागतः स्यात् ।। ६.१५ ।।

रूपेण भावेन च मद्विशिष्ता प्रियेण दृष्टा नियतं ततोऽन्या ।
तथा हि कृत्वा मयि मोघसान्त्वं लग्नां सतीं मां अगमद्विहाय ।। ६.१६ ।।

भक्तिं स बुद्धं प्रति यां अवोचत्तस्य प्रयातुं मयि सोपदेशः ।
मुनौ प्रसादो यदि तस्य हि स्यान्मृत्योरिवोग्रादनृताद्बिभीयात् ।। ६.१७ ।।

लेकार्थं आदर्शनं अन्यचित्तो विभूषयन्त्य मम धारयित्वा ।
बिभर्ति सोऽन्यस्य जनस्य तङ्चेन्नमोऽस्तु तस्मै चलसौहृदाय ।। ६.१८ ।।

नेच्छन्ति याः शोकं अवाप्तुं एवं श्रद्धातुं अर्हन्ति न ता नराणां ।
क्व चानुवृत्तिर्मयि सास्य पूर्वं त्यागः क्व चायं जनवत्क्षणेन ।। ६.१९ ।।

इत्येवमादि प्रियविप्रकुता प्रियेऽन्यदाशङ्क्य च सा जगाद ।
संभ्रान्तं आरुह्य च तद्विमानं तां स्त्री सबाष्पा गिरं इत्युवाच ।। ६.२० ।।

युवापि तावत्प्रियदर्शनोऽपि सौभाग्यभाग्व्याभिजनान्वितोऽपि ।
यस्त्वां प्रियो नाभ्यचरत्कदा चित्तं अन्यथा यास्यतिकातरासि ।। ६.२१ ।।

मा स्वामिनं स्वामिनि दोषतो गाः प्रियं प्रियार्हं प्रियकारिणं तं ।
न स त्वदन्यां प्रमदां अवैति स्वचक्रवाक्या इव चक्रवाकः ।। ६.२२ ।।

स तु त्वदर्थं गृहवासं ईप्सन्जिजीविषुस्त्वत्परितोषहेतोः ।
भ्रात्रा किलार्येण तथागतेन प्रव्राजितो नेत्रजलार्द्रवक्त्रः ।। ६.२३ ।।

श्रुत्वा ततो भर्तरि तां प्रवृत्तिं सवेपथुः सा सहसोत्पपात ।
प्रगृह्य बाहू विरुराव चोच्चैर्हृदीव दिग्धाभिहता करेणुः ।। ६.२४ ।।

सा र्दोअनारोषितरक्तदृष्टिः संतापसंक्षोभितगात्रयष्टिः ।
पपात शीर्णाकुलहारयष्टिः फलातिभारादिव चूतयष्टिः ।। ६.२५ ।।

सा पद्मरागं वसनं वसाना पद्मानना पद्मदलायताक्षी ।
पद्मा विपद्मा पतितेव लक्ष्मीः शुशोष पद्मस्रगिवातपेन ।। ६.२६ ।।

संचिन्त्य संचिन्त्य गुणांश्च भर्तुर्दीर्घं निशशवास तताम चैव ।
विभूषश्रीनिहिते प्रकोष्ठे ताम्रे कराग्रे च विनिर्दुधाव ।। ६.२७ ।।

न भुषणार्थो मम संप्रतीति सा दिक्षु चिक्षेप विभूषणानि ।
निर्भुषणा सा पतिता चकाशे विशीर्णपुष्पस्तबका लतेव ।। ६.२८ ।।

धृतः प्रियेणायं अभून्ममेति रुक्मत्सरुं दर्पणं आलिलिङ्गे ।
यत्नाच्च विन्यस्ततमालपत्त्रौ रुष्टेव धृष्टं प्रममार्ज गण्डौ ।। ६.२९ ।।

सा चक्रवाक्वीक भृशं चुकूज श्येनाग्रपक्षक्षतचक्रवाका ।
विस्पर्धमानेव विमानसंस्तहिः पारावतैः कूजनलोकण्ठैः ।। ६.३० ।।

विचित्रमृद्वास्तरणेऽपि सुप्ता वैडूर्यवज्रप्रतिमण्डितेऽपि ।
रुक्माङ्गपादे शयने महार्हे न शर्म लेभे परिचेष्टमाना ।। ६.३१ ।।

संदृष्य भर्तुश्च विभूषञानि वासांसि वीणाप्रभृतिंश्च लीलाः ।
तमो विवेशाभिननाद चोच्चैः पङ्कावतीर्णेव च संससाद ।। ६.३२ ।।

सा सुन्दरी श्वासचलोदरी हि वज्राग्निसंभिन्नदरीगुहेव ।
शोकाग्निनान्तर्धृदि दह्यमाना विभ्रान्तचित्तेव तदा बभूव ।। ६.३३ ।।

रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ ।
चकार रोषं विचकार माल्यं चकर्त वक्त्रं विचकर्ष वस्त्रं ।। ६.३४ ।।

तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य नार्यः परमाभितप्ताः ।
अन्तर्गृहादारुरुहुर्विमानं त्रासेन किंनर्य इवाद्रिपृष्ठं ।। ६.३५ ।।

बाष्पेण ताः क्लिन्नविषण्णवक्त्रा वर्षेण पद्मिन्य इवार्द्रपद्माः ।
स्थानानुरूपेण यथाभिमानं निलिल्यिरे तां अनु दह्यमानाः ।। ६.३६ ।।

ताभिर्वृता हर्म्यतलेऽङ्गनाभिश्चिन्तातनुः सा सुतनुर्बभासे ।
शतह्रदाभिः परिवेष्टितेव शशाङ्कलेखा शरद्भ्रमध्ये ।। ६.३७ ।।

या तत्र तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च ।
सा पृष्ठतस्तां तु समालिलिङ्गे प्रमृह्य चाश्रूणि वचांस्युवाच ।। ६.३८ ।।

राजर्षिवध्वास्तव नानुरूपो धर्माश्रिते भर्तरि जातु शोकः ।
इक्ष्वाकुवंशे ह्यभिकाङ्क्षितानि दायाद्यभूतानि तपोवनानि ।। ६.३९ ।।

प्रायेण मोक्षाय विनिःसृतानां शाक्यर्षभाणां विदिताः स्त्रियस्ते ।
तपोवनानीव गृहाणि यासां साध्वीव्रतं कामवदास्रितानां ।। ६.४० ।।

यद्यन्यया रूपगुणाधिकत्वाद्भर्ता हृतस्ते कुरु बाष्पमोक्षं ।
मनस्विनी रूपवती गुणाध्या हृदि क्षते कात्र हि नाश्रु मुञ्चेत् ।। ६.४१ ।।

अथापि किं चिद्व्यसनं प्रपन्नो मा चैव तद्भूत्सदृशोऽत्र बाष्पः ।
अतो विशिष्टं न हि दुःखं अस्ति कुलोद्गतायाः पतिदेवतायाः ।। ६.४२ ।।

अथ त्विदानीं लडितः सुखेन स्वस्थः फलस्थो व्यस्नान्यदृष्त्वा ।
वीतस्पृहो धर्मं अनुप्रपन्नः किं विक्लवे रोदिषि हर्षकाले ।। ६.४३ ।।

इत्येवं उक्तापि बहुप्रकारं स्नेहात्तया नैव धृतिं चकार ।
अथापरा तां मनसोऽनुकूलं कालोपपन्नं प्रणयादुवाच ।। ६.४४ ।।

ब्रवीमि सत्यं सुविनिश्चितं मे प्राप्तं प्रियं द्रक्ष्यसि शीघ्रं एव ।
त्वया विना स्थास्यति तत्र नासौ सत्त्वाष्रयश्चेतनयेव हीनः ।। ६.४५ ।।

अङ्केऽपि लक्ष्म्या न स निर्वृतः स्यात्त्वं तस्य पार्श्वे यदि तत्र न स्याः ।
आपत्सु कृच्छ्रास्वपि चागतासु त्वां पश्यतस्तस्य भवेन्न दुःखं ।। ६.४६ ।।

त्वं निर्वृतिं गच्छ नियच्छ बाष्पं तप्ताश्रुमोक्षात्परिरक्ष चक्षुः ।
यस्तस्य भावस्त्वयि यश्च रागो न रंस्यते त्वद्विरहात्स धर्मे ।। ६.४७ ।।

स्यादत्र नासौ कुलसत्त्वगोयात्काषायं आदाय विहास्यतीति ।
अनात्मनादाय गृहोन्मुखस्य पुनर्विमोक्तुं क इवास्ति दोषः ।। ६.४८ ।।

इत्य्युवतिजनेन सान्त्व्यमाना हृतहृदया रमणेन सुन्दरी सा ।
द्रमिडं अभिमुखी पुरेव रम्भा क्षितिं अगमत्परिवारिताप्सरोभिः ।। ६.४९ ।।


Sऔन्दरनन्दे महाकाव्ये भार्याविलापो नाम षष्टः सर्गह् ।।