सौन्दरनन्दकाव्यम्/नवमः सर्गः

विकिस्रोतः तः
← अष्ठमः सर्गः सौन्दरनन्दकाव्यम्
नवमः सर्गः
[[लेखकः :|]]
दशमः सर्गः →

सर्ग ९

अथैवं उक्तोऽपि स तेन भिषुणा जगाम नैवोपशमं प्रियां प्रति ।
तथा हि तां एव तदा स चिन्तयन्न तस्य शुश्राव विसंज्ञवद्वचः ।। ९.१ ।।

यथा हि वैद्यस्य चिकीर्षतः शिवं वचो न गृह्नाति मुमूर्षुरातुरः ।
तथैव मत्तो बलरूपयौवनैर्हितं न जग्राध स तस्य तद्वचः ।। ९.२ ।।

न चात्र चित्रं यदि रागपाप्मना मनोऽभिभूयेत तमोवृतामनः ।
नरस्य पाप्मा हि तदा निवर्तते यदा भवत्यन्तगतं तमस्तनु ।। ९.३ ।।

ततस्तथाक्षिप्तं अवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च ।
गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शन्तये ।। ९.४ ।।

बलं च रूपं च नवं च यौवनं तथावगच्छामि यथावगच्छसि ।
अहं इविदं ते त्रयं अव्यवस्तितं यथावबुद्धो न तथावबुध्यसे ।। ९.५ ।।

इदं हि रोगायतनं जरावशं नदीतटानोकहवच्चलाचलं ।
न वेत्सि देहं जलफेनदुर्बलं बलस्थतां आत्मनि येन मन्यसे ।। ९.६ ।।

यदान्नपानासनयानकर्मणां असेवनादप्यतिसेवनादपि ।
शरीरं आसन्नविपत्ति दृश्यते बलेऽभिमानस्तव केन हेतुना ।। ९.७ ।।

हिमातपव्याधिजराक्षुदादिभिर्यदाप्यनर्थैरुपमीयते जगत् ।
जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजन्किं बलदृप्त मन्यसे ।। ९.८ ।।

त्वगस्थिमांसक्षतजात्मकं यद शरीरं आहारवशेन तिष्ठति ।
अजस्रं आर्तं सततप्रतिक्रियं बलान्वितोऽस्मीति कथं विहन्यसे ।। ९.९ ।।

यथा घटं मृन्मयं आमं आश्रितो नरस्तितीर्षेत्क्षुभितं महार्णवं ।
समुच्छ्रयं तद्वदसारं उद्वहन्बलं व्यवस्येद्विषयार्थं उद्यतः ।। ९.१० ।।

शरिरं आमादपि मृन्मयं आमं आश्रितो नरस्तितीर्षेत्क्षुभितं महार्णवं ।
चित्रं हि तिष्ठेद्विधिवद्धृतो घटादिदं नु निःसारत्मं मतं मम ।। ९.११ ।।

यदाम्बुभूवाय्वनलाश्च धातवः सदा विरुद्धा विषमा इवोरगाः ।
भवन्त्यनर्थाय शरीरं आश्रिताः कथं बलं रोगविधो व्यवस्यसि ।। ९.१२ ।।

प्रायन्ति मन्त्रैः प्रशमं भुजङ्गमा न मन्त्रसाध्यास्तु भवन्ति धातवः ।
क्व चिच्च किं चिच्च दशन्ति पन्नगाः सदा च सर्वं च तुदन्ति धातवः ।। ९.१३ ।।

इदं हि शय्यासनपानभोजनैर्गुणैः शरिरं चिरं अप्यवेक्षितं ।
न मर्षयत्येकं अपि व्य्तिक्रमं यतो महाशिविषवत्प्रकुप्यति ।। ९.१४ ।।

यदा हिमार्तो ज्वलनं निषेवते हिमं निदाघाभिहतोऽभिकाङ्क्षति ।
क्षुधानिव्तोऽन्नं सलिलं तृषान्वितो बलं कुतः किं च कथं च कस्य च ।। ९.१५ ।।

तदेवं अज्ञाय शरीरं आतुरं बलान्वितोऽस्मीति न मन्तुं अर्हसि ।
असारं अस्वन्तं अनिश्चितं जगज्जगत्यनित्ये बलं अव्यवस्थितं ।। ९.१६ ।।

क्व कार्तवीर्यस्य बलाभिमानिनः शस्रबाहोर्बलं अर्जुनस्य तत् ।
चकर्त बाहून्युधि यस्य भार्गवो महान्ति शृङ्गाण्यशनिर्गिरेरिव ।। ९.१७ ।।

क्व तद्बलं कंसविकर्षिणो हरेस्तुरङ्गराजस्य पुटावभेदिनः ।
यं एकबाणेन निजघिन्वान्जराः क्रमागता रूपं इवोत्तमं जरा ।। ९.१८ ।।

दितेः सुतस्यामररोषकारिणश्चमूरुचेर्वा नमुचेः क्व तद्बलं ।
यं आहवे क्रुद्धं इवान्तकं स्थितं जघान फेनावयवेन वासवः ।। ९.१९ ।।

बलं कुरूणां क्व च तत्तदाभवद्युधि ज्वलित्वा तरसौजसा च ये ।
समित्सम्मिधा ज्वलना इवाध्वरे हतासवो भस्मनि पर्यवस्थिताः ।। ९.२० ।।

अतो विदित्वा बल्वीर्यमानिनां बलान्वितानां अवमर्दितं बलं ।
जगज्जरामृत्युवशं विचारयन्बलेऽभिमानं न विधातुं अर्हसि ।। ९.२१ ।।

बलं महद्वा यदि वा न मन्यसे कुरुष्व युद्धं सह तावदिन्द्रियैः ।
जयश्च तेऽत्रास्ति महच्च ते बलं पराजयश्चेद्वितथं च ते बलं ।। ९.२२ ।।

तथा मता वीरतरा मनीषिणो जयन्ति लोहानि षशिन्द्रियाणि ये ।। ९.२३ ।।

अहं वपुष्मानिति यच्च मन्यसे विचक्षणं नैतदिदं च गृह्यतां ।
क्व तद्वपुः सा च वपुष्मती तनुर्गदस्य साम्यस्य च सारणस्य च ।। ९.२४ ।।

यथा मयूरश्चलचित्रचन्द्रको बिभर्ति रूपं गुणवत्स्वभावतः ।
शरीरसंस्कारगुणादृते तथा बिभर्षि रूपं यदि रूपवानसि ।। ९.२५ ।।

यदि प्रतीपं वृणुयान्न वाससा न शौचकाले यदि संस्पृशेदपः ।
मृजाविशेषं यदि नाददीत वा वपुर्वपुष्मन्वद कीदृशं भवेत् ।। ९.२६ ।।

नवं वयश्चात्मगतं निशाम्य यद्गृहोन्मुखं ते विषयाप्तये मनः ।
नियच्छ तच्छैलनदीरयोपमं द्रुतं हि गच्छत्यन्विरति यौवनं ।। ९.२७ ।।

ऋतुर्व्यतीतः परिवर्तते पुनः क्षयङ्प्रयातः पुनरेति चन्द्रमाः ।
गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनं ।। ९.२८ ।।

विवर्णितश्मश्रु वलीविकुञ्चितं विशीर्णदन्तं शिथिलभ्रु निष्प्रभं ।
यदा मुखं द्रक्ष्यसि जर्जरं तदा जराभिभूतो विमदो भविष्यसि ।। ९.२९ ।।

निषेव्य पानं मदनीयं उत्तमं निशाविवासेषु चिराद्विमाद्यति ।
नरस्तु मत्तो बलरूपयौवनैर्न कश्चिदप्राप्य जरां विमाद्यति ।। ९.३० ।।

यथेक्षुरत्यन्तरसप्रपीडितो भुवि प्रविद्धो दहनाय शुष्यते ।
तथा जरायन्त्रनिईडिता तनुर्निपीतसारा मरणाय तिष्ठति ।। ९.३१ ।।

यथा हि नृभ्यां करपत्त्रं ईरितं समुच्छ्रितं दारु भिनत्त्यनेकधा ।
तथोच्छ्रितां पातयति प्रजां इमां अहर्निशाभ्यां उपसंहिता जरा ।। ९.३२ ।।

स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वाच्छ्रुतिचक्षुषां ग्रहः ।
श्रमस्य योनिर्बल्वीर्ययोर्वधो जरासमो नास्ति शरीरिणां रिपुः ।। ९.३३ ।।

इदं विदित्वा निधनस्य दैशिकं जराभिदहानं जगतो महद्भयं ।
अहं वपुष्मान्बलवान्युवेति वा न मानं आरोढुं अनार्यं अर्हसि ।। ९.३४ ।।

अहं ममेत्येव च रक्तचेतसां शरीरसंज्ञा तव यः कलौ ग्रहः ।
तं उत्सृजैवं यदि शाम्यता भवेद्भयं ह्यहं चेति ममेति चार्छति ।। ९.३५ ।।

यदा शरीरे न वशोऽस्ति कस्य चिन्निरस्यमाने विविधैरुपप्लवैः ।
कथं क्षमं वेत्तुं अहं ममेति वा शरीरसंज्ञं गृहं आपदां इदं ।। ९.३६ ।।

सपन्नगे यः कुगृहे सदाशुचौ रमेत नित्यं प्रतिसंस्कृतेऽबले ।
स दुष्टधातावशुचौ चलाचले रमेत काये विपरीत्दर्शनः ।। ९.३७ ।।

यथा प्ररोहन्ति तृणान्ययत्नतः क्षितौ प्रयत्नात्तु भव्न्ति शालयः ।
तथैव दुःखानि तृञान्ययत्नतः क्षितौ प्र्यत्नात्तु भवन्ति वा न वा ।। ९.३९ ।।

शरीरं आर्तं परिकर्षतश्चलं न चास्ति किं चित्परमार्थतः सुखं ।
सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यस्वस्यति ।। ९.४० ।।

यथानपेक्ष्याग्र्यं अपीसितं सुखं प्रबाधते दुःखं उपेतं अण्वपि ।
तथानपेक्ष्यात्मनि दुःखं आगतं न विद्यते किं चन कस्य चित्सुखं ।। ९.४१ ।।

शरीरं ईदृग्भहुदुःखं अध्रुवं फलानुरोधाहथ नावगच्छसि ।
द्रवत्फलेभ्यो धृतिरश्मिभिर्मनो निगृह्यतां गौरिव शस्यलालसा ।। ९.४२ ।।

न कामभोगा हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोरिव ।
यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्धते ।। ९.४३ ।।

यथा च कुष्ठव्यसनेन दुःखितः प्रतापनान्नैव शमं निगच्छति ।
तथेन्द्रियार्थेष्वजितेन्द्रियश्चरन्न कामभोगैरुपशान्तिं ऋच्छति ।। ९.४४ ।।

यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान्न भजेत तत्क्षमं ।
तथा शरीरे बहुदुःखभाजने रमेत मोहाद्विषयाभिकाङ्क्षया ।। ९.४५ ।।

अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा ।
अनर्थमूला विषयाश्च केवला ननु प्रहेया विषमा यथारयः ।। ९.४६ ।।

इहैव भूत्वा रिपवो वधात्मकाः प्रयान्ति काले पुरुषस्य मित्रतां ।
परत्र चैवेह च दुःखहेतवो भवन्ति कामा न तु कस्य चिच्छिवाः ।। ९.४७ ।।

यथोपयुक्तं रसवर्णगन्धवद्वधाय किंपाकफलं न पुष्टये ।
निषेव्यमाणा विषयाश्चलात्मनो भवन्त्यनर्थाय तथा न भूतये ।। ९.४८ ।।

ततेतदाज्ञाय विपाप्मनात्मना विमोक्षधर्माद्युपसंहितं हितं ।
जुषस्व मे सज्जनसंमतं मतं प्रचक्ष्व वा निश्चयं उद्गिरन्गिरं ।। ९.४९ ।।

इति हितं अपि बह्वपीदं उक्तः श्रुतमहता श्रमणेन तेन नन्दः ।
न धृतिं उपययौ न शर्म लेभे द्विरद इवातिमदो मदान्धचेताः ।। ९.५० ।।

नन्दस्य भावं अवगम्य ततः स भिक्षुः पारिप्लवं गृहसुखाभिमुखं न धर्मे ।
सत्त्वाशयानुशयभावपर्क्षकाय बुद्धाय तत्त्वदिउषे कथयां चकार ।। ९.५१ ।।


Sऔन्दरनन्दे महाकाव्ये मदापवादो नाम नवमः सर्गः ।